Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
५८८
दमयन्ती-कथा-चम्पू: उज्झितं-त्यक्तं प्रियं-इष्टं यत्र एवंविधं यथा भवति, तथा अल्पाल्पं-स्तोकं-स्तोकं' जल्पन्, तथा इह-कन्यान्तःपुरे चिरं स्थातुं अयुक्तमिति चिन्तयन्-विचारयन् सन् दमयन्तीमापुच्छ्य नलः पर्यङ्किकापृष्ठात्-लघुपल्यंकोपरितनतलात् उदतिष्ठत्-उत्तस्थौ । अल्पाल्पमिति एकं बहुव्रीहिवत् इति पूर्वस्मात् सुप्लोपः ।
प्रथमोत्थितया तथा लज्जावनम्रवदनारविन्दया सह सखीकदम्बकेन द्वित्राणि पदान्यनुगम्यमानो विहसन् 'अलमलमायासेन', स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् ।
प्रथमं नलोत्थानात् पूर्वमुत्थितया-मुक्तासनया, तथा लज्जया अवनम्र-ईषन्नतं वदनारविन्दं यस्याः सा तया लज्जावनम्रवदनारविन्दया तया-दमयन्त्या सखीकदम्बकेनवयस्यावृन्देन च सह द्वित्राणि पदानि अनुगम्यमानः-अनुस्रियमाणो नलो विहसन् हे दमयन्ति ! आयासेन-खेदेन अलं अलं-आयासं मा कुर्वित्यर्थः । सम्भ्रमे द्वित्वम् । सुखं स्थीयतां इत्यभिधाय-उक्त्वा स्वगृहान् अयासीत्-जगाम ।
गत्वा च शिरीषकुसुमदाममृदुनि' शय्यातले निषण्णश्चिन्तयांचकार । -
स्वगृहेषु गत्वा च शिरीषकुसुमदामवत् मृदुनि-सुकुमारे शय्यातले निषण्णः-उपविष्टः सन् चिन्तयाञ्चकार ।
हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुकाच्छृङ्गारादलसं, भयात्तरलङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं, किंचित्काञ्चनगौरगण्डगलित स्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥
हर्षादिति । तस्याः मृगदृशोः-दमयन्त्या नवसङ्गमे-प्रथमसंयोगे यन्मुखं दृष्टं तत् भूयोपि किं दृश्येत-तथाविधं मुखं पुनरपि किं वीक्ष्येत ? अत्र यत् दृष्टं चेति अध्याहिगते । किम्भूतं तत् ? नवसङ्गमे मुखम् ? हर्षात्-आनन्दात् उद्गताः पुलकाः-रोमाञ्चा यत्र तत् उत्पुलकं, तथा रभसात्-वीक्षणौत्सुक्यात् विकासि-विकसनशीलं, तथा कौतुकात् उत्तानितं उन्मुखीकृतं, तथा शृङ्गारात्-शृङ्गाररसात् अलसं-आलस्योपेतं, तथा भयात् अपरिणीतप्रियेण सह वार्ताविधानेन पित्रादिभ्यो भीतेस्तरला-चञ्चला दृक् यत्र तत्, च-पुनः लज्जाभरात्व्रीडातिशयात् नम्र-नमनशीलं । पुनः किम्भूतम् ? किञ्चिन्-मनाक काञ्चनवत्-स्वर्णवत् १. स्तोकस्तोकं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776