Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 736
________________ सारस्वतीविवृतिकृत्प्रशस्तिः श्रीमत्खरतरगच्छे स्वच्छेऽभूवन्नवाङ्गवृत्तिकराः । श्रीमदभयदेवाख्याः पुरा वराचार्यगुणमुख्याः ।। १ ।। तेषां क्रमेण पट्टे विख्याता लक्षसंख्यगुणदक्षाः । रेजुर्जलधिगभीरा: श्रीजिनमाणिक्यसूरिवराः ॥ २ ॥ तत्पट्टे विशदप्रभाकरकरस्फूर्जत्प्रतापोद्धुराः, वादप्राप्तजया धरापतिसदः पीठे सदा सुन्दराः । तत्तत्कृत्यविधानतो भुवि चमत्कारं विशां चक्रिरे, चेतःसु प्रथमागमाधिगमतो लब्धप्रतिष्ठाश्च ये || ३ ॥ युगप्रधानेषु महाप्रभाव - श्रियो निधानेषु विशुद्धबुद्धिषु । विराजमानेषु जनेषु तेषु, स्तुत्येषु सच्छ्रीजिनचन्द्रसूरिषु ॥ ४ ॥ श्रीक्षेमशाखासु सुधातिशायि - रसप्रवेशासमवाग्विलासाः । श्रीक्षेमराजः१ भुवि पारिजात - फलोपमाः पाठकलक्ष्मिलक्ष्याः ॥ ५ ॥ जयन्तु तेषां च वरा विनेयाः, सद्भागधेयाः स्वगुणैरमेयाः । चत्वार आसन् विमलप्रबोधा, विधेर्नु वेदा इव मूर्तिमन्तः ॥ ६ ॥ शिवसुन्दरनामानो विलसत्संवेगकनकतिलकाह्वाः । पाठकपदप्रधाना[:], उभयेऽपि प्राप्तकीर्त्तिभरा [:] ॥ ७ ॥ सदयोदयास्तृतीयाः सदयास्सततं दयातिलकगणयः । वाग्गुरवो वाग्गुरवस्तुर्याः शिष्याश्च विजयन्ते ॥ ८ ॥ श्रीमत्प्रमोदमाणिक्यनामधेयाः सुसाधुवृत्तधराः । भाग्याभ्यधिकास्तेषां विद्यन्तेऽमी पुनः शिष्याः ॥ ९ ॥ चत्वारोप्यम्बुधिवद्गम्भीराक्षोभ्यतादिगुणयुक्ताः । न च जडसङ्गतिभाजो भवन्ति येऽस्मिन् महीपीठे ॥ १० ॥ वाग्गुरुगुणरङ्गाख्या रङ्गद्गुरुभक्तिभाग्दयारङ्गाः । श्रीजयसोमास्सोमाननास्तथा क्षेमसोमाह्वाः ॥ ११ ॥ १. श्रीक्षेमराजा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776