Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
५९२
दमयन्ती-कथा-चम्पू:
तत्र श्रीजयसोमकल्पतरवोऽमेयप्रमाशेमुषीशाखालीढवरागमाम्बरतला: सत्पात्र शोभावहाः । कीर्तिप्राप्तफलाः कलोत्तर कलाः सन्तीहमत्पाठकाः, श्रीमन्तो गुरवो रवोदितरसैः सम्प्रीणितप्राणिनः ॥१२ ॥ तेषां शिष्यो मुख्यो गुणविनयाख्यो विमृश्य शास्त्राणि । सत्पाणिनीयहैमानेकार्थोणादिमुख्यानि ॥ १३ ॥ श्रीचण्डपालरचितं दुर्गपदप्रकटनैकसितकक्षम् । श्रीचम्पूटिप्पनकं पुनः सहार्दै समुपजीव्य ॥ १४ ॥ श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये । सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ १५ ॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रमा- [१६४७] ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले । श्रीसेरुन्नकनाम्निभद्रनगरेऽर्हच्चैत्यशोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा● सुधीः ॥ १६ ॥ सरस्वत्यां३ प्रणीतायां श्रीचम्प्वां कृतसंविदि । यन्मया वितथं प्रोक्तं मतिमान्येन वाऽन्यथा ।। १७ ।। सव्याख्यां कुर्वता सन्तोऽनुग्रहं मयि धीधनाः । तत्कृत्वोत्सारयन्त्वार्या मावजानन्तु किञ्चन ॥ १८ ॥ युग्म्म् । गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ १९ ॥ [आधुनिकबुधविनिर्मितमेतद्व्याख्यानमिति विमृश्येह । माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य यहब्धम् ॥ २० ॥ श्रीफलवद्धिकपार्श्व-श्रीमज्जिनदत्तकुशलसूरीणाम् ।। सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात् ॥ २१ ॥] वैयाकरणविशिष्टैः शिष्टैः सदसद्विवेकमतिपुष्टैः । रत्ननिधानैर्वाचकमुख्यैर्दक्षरशोधीयम् ॥ २२ ॥
१. पर्णानि-सत्पुरुषाश्च । २. कलनाया उत्तरा अधिकाः कला विज्ञानानि येषां ते । ३. सरस्वत्या अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776