Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 735
________________ दमयन्ती - कथा - चम्पूः ५९० किम्भूतं चक्षुः ? जलेन - अश्रुजलेन यो जडिमा - जडत्वं अनुन्मिषत्वं जलजडिमा सह जलजडिम्ना वर्तत इतिं सजलजडिमनोन्मुखीभवतीत्यर्थः, तथा मीलन्ति-संकुचन्ति पक्ष्माणि-नेत्ररोमाणि यत्र तत् मीलत्पक्ष्म । यद्वा, सजलं च तत् जडिम्ना मीलत्पक्ष्म चेति समासः । पुनः किम्भूतः ? उभयस्मिन् शक्राद्यभ्यर्थित भैमीपरिणयने श्रेयः प्रतिघात इति न परिणयाम्येनां तादृक् सर्वातिशायिरूपावलोकनोत्पन्नानुरागाच्च परिणयामि इत्युभयत्र संगआसक्तिर्विद्यते यस्यासौ उभयसङ्गी । किञ्चिज्जानाति परिणयामि किञ्चिच्च जानाति न परिणयामि इत्युभयत्र अभिलाषवान् । यद्वा, उभयस्मिन् शम्भुपदपद्मस्मरणे भैमीमुखपुनरवलोकने च सङ्गो विद्यते यस्याऽसौ उभयसङ्गी । "अत इतिठनौ" [ पा०सू० ५/२/११५] इति इनिर्मत्वर्थे । प्रत्यन्तरे तु 'अतिविदग्धः' इति पाठः स च स्पष्ट एव ॥ ५० ॥ इति वाचनाचार्यश्रीमच्छ्री प्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डित श्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचित श्रीदमयन्तीकथाविवृतौ सप्तम उच्छ्वासः समाप्तः । १. श्रीमत् नास्ति अनू. । २. पण्डित नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776