SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ५९२ दमयन्ती-कथा-चम्पू: तत्र श्रीजयसोमकल्पतरवोऽमेयप्रमाशेमुषीशाखालीढवरागमाम्बरतला: सत्पात्र शोभावहाः । कीर्तिप्राप्तफलाः कलोत्तर कलाः सन्तीहमत्पाठकाः, श्रीमन्तो गुरवो रवोदितरसैः सम्प्रीणितप्राणिनः ॥१२ ॥ तेषां शिष्यो मुख्यो गुणविनयाख्यो विमृश्य शास्त्राणि । सत्पाणिनीयहैमानेकार्थोणादिमुख्यानि ॥ १३ ॥ श्रीचण्डपालरचितं दुर्गपदप्रकटनैकसितकक्षम् । श्रीचम्पूटिप्पनकं पुनः सहार्दै समुपजीव्य ॥ १४ ॥ श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये । सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ १५ ॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रमा- [१६४७] ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले । श्रीसेरुन्नकनाम्निभद्रनगरेऽर्हच्चैत्यशोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा● सुधीः ॥ १६ ॥ सरस्वत्यां३ प्रणीतायां श्रीचम्प्वां कृतसंविदि । यन्मया वितथं प्रोक्तं मतिमान्येन वाऽन्यथा ।। १७ ।। सव्याख्यां कुर्वता सन्तोऽनुग्रहं मयि धीधनाः । तत्कृत्वोत्सारयन्त्वार्या मावजानन्तु किञ्चन ॥ १८ ॥ युग्म्म् । गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ १९ ॥ [आधुनिकबुधविनिर्मितमेतद्व्याख्यानमिति विमृश्येह । माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य यहब्धम् ॥ २० ॥ श्रीफलवद्धिकपार्श्व-श्रीमज्जिनदत्तकुशलसूरीणाम् ।। सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात् ॥ २१ ॥] वैयाकरणविशिष्टैः शिष्टैः सदसद्विवेकमतिपुष्टैः । रत्ननिधानैर्वाचकमुख्यैर्दक्षरशोधीयम् ॥ २२ ॥ १. पर्णानि-सत्पुरुषाश्च । २. कलनाया उत्तरा अधिकाः कला विज्ञानानि येषां ते । ३. सरस्वत्या अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy