SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वास: न येषु देशेषु विशिष्टधर्म - वार्त्तापि कर्णातिथितां बभाज । येन प्रजापालनतत्परेण, प्रवर्तितस्तेषु विशुद्धधर्मः ॥ १ ॥ अनार्या अपि देशाः सद्धर्मभावनयानया । येनार्या विहिता यद्वत्तिलाः पुष्पैः सुवासिताः ॥ २ ॥ दोषापहारात्तमसो विनाशात्, प्रकाशनान्यायपथस्य भूतले । श्रीसूर्यसेवाकरणानुषङ्गिणा, श्रीसाहिना येन कृतं महाद्भुतम् || ३ || गवादिप्राणिसंघातघातस्य प्रतिषेधनात् । येन कान्ता दयाकान्ता सौभाग्यैकमतीकृता ॥ ४ ॥ स्वप्नेऽपि सज्जनाः सर्वे यस्येमामाशिषं ददुः । त्वं पालय चिराद्ं राज्यं यत्कृपावारिवारिधिः ॥ ५ ॥ यस्य राज्ञः प्रसत्त्यामी धर्मं कुर्वन्ति साधवः । तस्माद् यद्विजयो नित्यं यतो धर्मस्ततो जयः ॥ ६ ॥ यस्य नाम्नि विराजन्ते विष्णुब्रह्ममहेश्वराः । तेनाऽत्राऽकबरेत्याख्या ख्याता सर्वत्रभूतले ॥ ७ ॥ विबुधश्रेणिविराजित सविधे वरनन्दनश्रिया मुदिते । कृतगोरक्षे दक्षे शुभनयन इव त्रिदिवनाथे ॥ ८ ॥ अकबरनृपाधिनृपतौ विजयिति शरभुवनसम्मिते (३५) वर्षे । श्रीमल्लाभपुरीयं प्राकाशि परापुरस्सुधियाम् ॥ ९ ॥ इति श्रीचम्पूवृत्तिः समाप्ता । ग्रन्थाग्रं १०००० (११०००) सारस्वतीनाम्नीवृत्तिरियम् । * प्रतिष्ठानप्रतौ अन्तिमपत्राावे श्लोकाङ्का २० से प्रारभ्य अन्तिमांरा लोपलम्यंत । Jain Education International For Personal & Private Use Only ५९३ www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy