SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ५८८ दमयन्ती-कथा-चम्पू: उज्झितं-त्यक्तं प्रियं-इष्टं यत्र एवंविधं यथा भवति, तथा अल्पाल्पं-स्तोकं-स्तोकं' जल्पन्, तथा इह-कन्यान्तःपुरे चिरं स्थातुं अयुक्तमिति चिन्तयन्-विचारयन् सन् दमयन्तीमापुच्छ्य नलः पर्यङ्किकापृष्ठात्-लघुपल्यंकोपरितनतलात् उदतिष्ठत्-उत्तस्थौ । अल्पाल्पमिति एकं बहुव्रीहिवत् इति पूर्वस्मात् सुप्लोपः । प्रथमोत्थितया तथा लज्जावनम्रवदनारविन्दया सह सखीकदम्बकेन द्वित्राणि पदान्यनुगम्यमानो विहसन् 'अलमलमायासेन', स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् । प्रथमं नलोत्थानात् पूर्वमुत्थितया-मुक्तासनया, तथा लज्जया अवनम्र-ईषन्नतं वदनारविन्दं यस्याः सा तया लज्जावनम्रवदनारविन्दया तया-दमयन्त्या सखीकदम्बकेनवयस्यावृन्देन च सह द्वित्राणि पदानि अनुगम्यमानः-अनुस्रियमाणो नलो विहसन् हे दमयन्ति ! आयासेन-खेदेन अलं अलं-आयासं मा कुर्वित्यर्थः । सम्भ्रमे द्वित्वम् । सुखं स्थीयतां इत्यभिधाय-उक्त्वा स्वगृहान् अयासीत्-जगाम । गत्वा च शिरीषकुसुमदाममृदुनि' शय्यातले निषण्णश्चिन्तयांचकार । - स्वगृहेषु गत्वा च शिरीषकुसुमदामवत् मृदुनि-सुकुमारे शय्यातले निषण्णः-उपविष्टः सन् चिन्तयाञ्चकार । हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुकाच्छृङ्गारादलसं, भयात्तरलङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं, किंचित्काञ्चनगौरगण्डगलित स्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥ हर्षादिति । तस्याः मृगदृशोः-दमयन्त्या नवसङ्गमे-प्रथमसंयोगे यन्मुखं दृष्टं तत् भूयोपि किं दृश्येत-तथाविधं मुखं पुनरपि किं वीक्ष्येत ? अत्र यत् दृष्टं चेति अध्याहिगते । किम्भूतं तत् ? नवसङ्गमे मुखम् ? हर्षात्-आनन्दात् उद्गताः पुलकाः-रोमाञ्चा यत्र तत् उत्पुलकं, तथा रभसात्-वीक्षणौत्सुक्यात् विकासि-विकसनशीलं, तथा कौतुकात् उत्तानितं उन्मुखीकृतं, तथा शृङ्गारात्-शृङ्गाररसात् अलसं-आलस्योपेतं, तथा भयात् अपरिणीतप्रियेण सह वार्ताविधानेन पित्रादिभ्यो भीतेस्तरला-चञ्चला दृक् यत्र तत्, च-पुनः लज्जाभरात्व्रीडातिशयात् नम्र-नमनशीलं । पुनः किम्भूतम् ? किञ्चिन्-मनाक काञ्चनवत्-स्वर्णवत् १. स्तोकस्तोकं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy