________________
५८७
सप्तम उच्छ्वासः प्रसिद्धं चैतत्
भवति हृदयहारी क्वापि कस्यापि कश्चिन्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । किसलयति वनान्ते कोकिलालापरम्ये,
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ ४७ ॥ एतत्-वक्ष्यमाणं प्रसिद्धं च-सर्वजनविदितं च तदेवाह
भवेति । हे देव ! क्वापि-कुत्रचित् न सर्वत्र कस्यापि कश्चित् हृदयहारि-वल्लभो भवति । गुणविशेष: प्रेमबन्धस्य प्रयोगी-प्रयोक्ता न खलु-नैव, गुणविशेषेण प्रेमबन्धो न भवतीत्यर्थः । एतदेव दृष्टान्तेन द्रढयति-वनान्ते-वने किसलयति-पल्लवयति वसन्ते-मधौ मालती-जातिर्न विकसति-न पुष्पति । कोऽत्र हेतु:-किमत्र कारणम् ? यदि पुनर्गुणविशेषापेक्षया प्रेमबन्धो भवेत्तदा जातिरपि वसन्ते पुष्पेत् ? न च पुष्पति । एतावता बहुगुणविशिष्टानपि लोकपालान् परित्यज्य इयं त्वय्येव प्रेमवतीति सूचितम् । पुनर्गुणविशेष दर्शयति-किम्भूते वसन्ते ? कोकिलानां-पिकानां आलापेन रम्यः-सुन्दरः कोकिलालापरम्यस्तस्मिन् । वनान्त इत्यत्र अन्तः स्वरूपार्थेः ॥ ४७ ॥
एवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्चस्मितसुधास्निग्धम्, अविरुद्धम्, परिमित परिहाससुन्दरम्, अनुबंहितानुरागम् , उचितचाटुपटहम्', अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्, प्रियंवदिकया सहाल्पाल्पं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं स्थातुम्' इति चिन्तयन्नापृच्छ्य दमयन्ती नलः पर्यङ्किकापृष्ठा दुदतिष्ठत् ।।
एवं-अमुना प्रकारेण अनेकविधानि-बहप्रकाराणि यानि उपाख्यानानि-पंसिर दृष्टान्तास्तत्र निपुणया-दक्षया तया प्रियंवदिकया सह तस्मिन् काले-अवसरे उचितं-योग्यं यथा भवति तथा, अनुच्चं-अप्रकटं यत् स्मितं-हास्यं तदेव श्वेतत्वात् सुधा-पीयूषं तया स्निग्धं-चारु यथा भवति, तथा अविरुद्धं-पूर्वापरविरोधवजितं यथा भवति, तथा परिमितः-स्तोको यः परिहासः-लीलापूर्वकहास्यं तेन सुन्दरं यथा भवति, तथा अनुवृत्त्यातदनुकूलवार्ताकरणप्रवृत्या बृंहितः-वृद्धिं नीतः अनुरागो यत्र तत् एवं यथा भवति । बृहशब्दे वारे वृद्धौ । तथा उचितचाटूनां-योग्यप्रियवाक्यानां पटह इव यत् तत् तथाभूतं यथा भवति, तथा अशालां-शाठ्यरहितं यथाभवति तथा अकठोरं-कोमलं यथा भवति, तथा १. अन्तशब्दः अनू. । २. पुंसि नास्ति अनू. । ३. वार् अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org