________________
दमयन्ती - कथा - चम्पू:
५८६
तरलिते- कम्पिते सति । जल्पस्य पुनरुक्तता च, एकशः पर्वतकेन उक्तत्वात्, द्वितीयवारेण च स्वयमेव नलेन उक्तत्वात् । दमयन्त्या कयेव ? अरुन्तुदं - मर्मव्यथकं अङ्कुशं असहमानया अरण्यकरिण्या-काननहस्तिन्येव यथा अरण्यकरिण्या अकुशमसहमानया मनाक् शिरस्तरल्यते तथाऽनयापि । तथा मनसि - चेतसि स्तोकीकृते सति इदं प्रार्थनोक्तौ बह्विच्छायानिवृत्तत्वात् । तथा निःसहः - सोढुमशक्यो यो निःश्वासमरुत्-मुखवायुस्तस्मिन् मुक्ते सति, तथा चक्षुषि परावर्त्तिते सति - भ्रमिते सति तथा वदनारविन्दे विवर्णतां - विच्छायतां आनीते सति वदने विच्छाये जाते सतीत्यर्थः, प्रस्तावे - अवसरे पण्डिता - विदुषी अस्मिन्नवसरे इदं वक्तव्यमिदं न वक्तव्यमिति जानाना प्रियंवदिका सखी प्राह
'देव, श्रुतं श्रोतव्यम्, अवधारितो देवादेशः । किं तु न स्वतन्त्रेयम्, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनां अनालोचनगोचरश्चायमनुरागोऽङ्गनाजनस्य ।' तथाहि
तीव्रातपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्चन्द्रस्य, परिम्लायति मालतीमालिका सलिलसेकेन ।
हे देव !-राजन् ! श्रोतव्यं - श्रवणार्हं श्रुतम् । तथा देवादेश: ' अवधारित:- मनसि धृतः। किन्तु इयं दमयन्ती न स्वतन्त्रा - न स्वाधीना । तत्र हेतुमाह-यत: प्रवृत्तिनिवृत्तयः ईश्वरेच्छया स्युः - किल ईश्वरेच्छया प्रवर्तते, ईश्वरेच्छया च निवर्तत इति, ईश्वरेच्छापरवशेत्यर्थः । च-पुनरयं अङ्गनाजनस्य अनुराग :- प्रेमबन्धः प्राणिनां न आलोचनस्यविचारणस्य गोचर:-विषयः, न विचारयितुं शक्यत इत्यर्थः ।
तथाहीति । अङ्गनाजनानुरागस्य अविचारविषयत्वमेव दर्शयति
तीव्र :- उग्रो यस्तपनताप:- सूर्यतापः स प्रियः - इष्टो यस्याः सा एवम्विधा अम्भोजिनी - पद्मिनी स्तोकमपि - मनागपि अमृतमुच:- पीयूषस्राविणश्चन्द्रस्य रुचः - कान्तीर्न सहते किन्तु विच्छाया भवति । च पुनर्मालत्या जातेर्मालिका- स्रक् सलिलसेकेन- जलोक्षणेन परिम्लायति-विच्छायाभवति । अम्भोजिन्या जातिस्रजश्च साक्षात् स्त्रीत्वाध्यवसायात् सुन्दरेऽपि नानुराग उक्तः । तथा अस्या अपि रम्येष्वपि लोकपालेषु नानुराग इति भावः ।
१. इन्द्र० अनू. ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org