SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ५८९ सप्तम उच्छ्वासः गौरौ - पीतवर्णौ यौ गण्डौ - कपोलौ ताभ्यां सकाशात् गलितं-क्षरितं यत्स्वेदाम्बुः - घर्मजलं तेन रम्यं-मनोहरं । यद्वा, इत्थं योजना विधेया - तस्याः मृगदृशः तदिति पूर्वदृष्टं मुखं नवसङ्गमे विवाहादूर्ध्वं प्रथमसंयोगे भूयोऽपिं किं दृश्येत ? अग्रे मुखविशेषणानि तान्येव । नवरं, भयान्नवोढत्वेन भीतेस्तरलदृक् ॥ ४८ ॥ अपि च अपसरति न चक्षुषो मृगाक्षी, रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां, बत बहुशो ऽभिमुखीभवन्त्यपायाः ३ ॥ ४९ ॥ अपि च- पुन: अपेति । मृगाक्षी-हरिणलोचता चक्षुषो न अपसरति - न याति पुनः पुनर्भ्रमात् तामेव पश्यामीत्यर्थः । च पुनः इयं प्रत्यक्षा रजनि :- निशा न याति विरहित्वात् स्तोकाऽपि बह्वी जातेत्यर्थः । तथा निद्रा तन्द्रा नैति - नायाति । तथा मदनोऽपि - कामोऽपि प्रहरतिशरव्ययति। यस्माद् बत-इति खेदे, दुःखितानां दुःखिनां बहुश: - बहुभिः प्रकारैः अपाया:प्रत्यूहाः अभिमुखी भवन्ति - सम्मुखाः जायन्ते । अतएव ममापि विरहदु:खितत्वेन एतेऽपाया जाता इति खेदः । इति विविध वितर्कावेशविध्वस्तनिद्रः, सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः । हरचरणसरोजद्वन्द्वमाधाय चित्ते, "नृपतिरुभयसङ्गी सत्रियामामनैषीत् ॥ ५० ॥ ६ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि च समाप्तः ॥ Jain Education International इतीति किम् ? स नृपतिः - नलश्चित्ते हरस्य - शम्भो : चरणसरोजद्वन्द्वंपादपद्मद्वयमाधाय-संस्थाप्य स्मृत्वेत्यर्थः, त्रियामां रात्रिं अनैषीत् - अत्यवाहयत् । किम्भूतो नृपति: ? इति - पूर्वोक्तप्रकारेण विहिताः कृता ये वितर्का:- विकल्पास्तेषां आवेश:-हृदि प्रवेशस्तेन विध्वस्ता-नष्टा निद्रा यस्य सः । तथा एवम्विधं चक्षुः- नेत्रं दधान:-बिभ्राणः । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy