Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 711
________________ दमयन्ती - कथा - चम्पूः गीतगोष्ठीस्थितसखीगतझंकारेणाहूयमान इव यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् । प्रविश्य च - कन्यात: पुरे प्रवेशं विधाय यत्र सौधे दमयन्ती आस्ते तं सौधपृष्ठं आरूढवान्-आरुरोह | किम्भूतो नलः ? उत्प्रेक्ष्यते, दूरात्- विप्रकृष्टदेशात् अभिमुखागतेनसम्मुखप्राप्तेन, तथा अनवरतं - अजस्त्रं दह्यमानः - भस्मीक्रियमाणो यः कृष्णागुरुः-कालागुरुः स एव धूप:-गन्धद्रव्यं तस्य यो धूमः स एव वर्त्तिः - दशा तदाकृतित्वात्तस्य तस्या नर्त्तकेनकम्पकेन, वातेन हि धूमश्चाल्यत इति । तथा कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः बहलंनिविडं यद् यक्षकर्दमाम्बु तेन सिक्तः - उक्षितो यः सौधस्कन्धयोः सन्धिः-श्लेषस्तस्मिन् विचरितुं - विहर्तुं शीलं यस्यासौ तथाविधेन गन्धवाहेन वायुना कृतं अभ्युत्थानं - अभिमुखं उत्थानं यस्मै, एवंविध इव । यदा हि अतिथिरागच्छेत् तदा तस्याभिमुखं उत्थानं क्रियते तथा अनेन वातेनैवाभिमुखमागतेन अभ्युत्थानं नलस्य कृतमिति । तथा स्तोकं - अल्पं अन्तरंअवकाशं परिक्रम्य-उल्लंघ्य इत इतः - अस्मिन् अस्मिन् प्रदेशे देवी - भैमी वर्तत इति गीतगोष्ठ्यां-गानसभायां स्थिता याः सख्यः - वयस्यास्तासां गीतझङ्कारेण आहूयमान इवआकार्यमाण इव । नलेन गीतझङ्कारेण अज्ञायि यथाऽत्र भैमी वर्तत इति । तत्रोत्प्रेक्ष्यते, तत् झङ्कारेण इत इतो देवी वर्तत इति आकार्यत इवेति । ५६६ आरुह्य च मनाग्व्यवहितोऽनुपलक्ष्यमाण एव', वेणुवीणाक्वणानुसारिणा कोमलकाकलीप्रायेण किंनरीपुरुषस्य संगीतेन विनोद्यमानाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेन कज्जलकलङ्कितनयनोत्पलपक्ष्मपालिना मुखेन गगनचन्द्रस्पर्धया भूतलमपि पूर्णोदितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्तर्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता ६ कृतश्चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन " कुमुदमञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिकापङ्कपत्रभङ्गैर्भुजङ्गैरिव लावण्यामृतरक्षागतैरलंकृत- भव्यभुजशिखराम्, आसन्न भुवि विकीर्णै: पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूहलिभिर्नक्षत्रैरिव परिवृताम्, गुरु' नितम्बमण्डलस्पर्शसुखलम्पटतया १. उत्प्रेक्ष्यते नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776