Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 728
________________ सप्तम उच्छ्वासः ५८३ किञ्चान्यत् प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः । वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ ४६ ॥ किञ्चान्यत् । प्रस्तुतेति । प्रस्तुतस्य-प्रस्तावापन्नस्य वस्तुनो विरोधेन प्रातिकूल्येन सर्वोऽपि उपक्रम:-आरम्भो ग्राम्य:-अनुचितः, सर्वं हि अनुचितं ग्राम्यमित्युच्यते । तत्र दृष्टान्तमाहवीणायां-विपञ्च्यां वाद्यमानायां सत्यां वेदोद्गारः-वेदोच्चारो न रोचते-न प्रीणाति । प्रस्तुतेन वीणावादनेन सह वेदोद्गारस्य विरुद्धत्वात्, अतो ग्राम्यत्वेन न रोचते । “रुच्ङ नृप्रीतिप्रकाशयोः" [ ]। तथाऽत्र प्रस्तुतं किल मम परिणयनार्थमागमनं तत्र च विरुद्धं लोकपालानामभ्युपगमं । कारयितुं दूत्यकर्मेति ।। ४६ ॥ तत्किमिदानीमिदमुच्यते । 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन वृण्वन्ति' इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्वयते' स्वामिनामन्यथा कथ्यते इति श्रेयस्खलनम्प, यथावृत्तमाख्यायते स्वार्थहानिः, तद्वरमस्तु स्वार्थविघातो न तु विश्वस्तदेवतावञ्चना पातकम्' इति चिन्तयनशेषमपि तस्यै पुरन्दरादेशं सप्रपञ्चमा चचक्षे । ___ तत्-तस्मात् किमिदानी इदं उच्यते, यथा हे लोलाक्षि ! लोकपालास्त्वां-दमयन्ती अस्मन्मुखेन-अस्माकं द्वारा वृण्वन्ति-याचन्ते, इति प्रस्तुतो यो अनुरागो मयि एतस्याः प्रेमबन्धस्य प्रस्तुतत्वात् तस्य भङ्ग-विनाशः । अथ तेषां-इन्द्रादीनां आदेश:-आज्ञा अपहनूयते-अपलप्यते, तत्प्रार्थनावार्ता नोच्यत इत्यर्थः । स्वामिनां च तेषां अन्यथा कथ्यते यथोक्तमिति, तर्हि श्रेयस्खलनं-श्रेय:प्रतिघातः, श्रेयांसि न भवन्तीत्यर्थः । अथ यथावृत्तंयथाभूतं-तत् प्रार्थनालक्षणं आख्यायते-कथ्यते तर्हि स्वार्थहानिः, तत्-तस्मात् स्वार्थविघातो वरं-मनागिष्टमस्तु, स्वार्थविघातस्यापि मनागिष्टत्वात् । वरमित्यव्ययं मनागिष्टे । तुः-पुनरर्थे, न पुनर्विश्वस्तानां-विस्रब्धानां देवतानां वञ्चनारूपं पातकं-पापमस्तु, विश्वस्तजनवञ्चनस्य महापापरूपत्वात् । इति-अमुना प्रकारेण चिन्तयन्-मनसा अवधारयन् सन् नलः [तस्यै] अशेषमपि-समस्तमपि पुरन्दरादेशं-इन्द्रादेशं सप्रपज्यं-सविस्तरं आचचक्षे-कथयामास । १°सापि शोकस्मितमुग्धनम्रमुखी११ 'हं हे प्रियंवदिके, प्रियास्मज्जीवितयाम्बया तातेन१२ च मध्याह्ने समाहूय किमुक्तासि ? किं शिक्षिता Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776