Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तम उच्छ्वासः
५८१
शरीरसुन्दरता सौभाग्यं च सुभगता तयोः कुलगृहं - उत्पत्तिस्थानं । यथा कुलगृहे - पितृमन्दिरे कुमारी स्वैरं क्रीडति तथा अस्यां सौन्दर्यसौभाग्ये । तथा त्रैलोक्यमेव आकर :- खानिस्तस्मिन् रत्नकन्दलिरिव या सा । यथा आकरे रत्नकन्दली श्रेष्ठा तथेयं त्रैलोक्ये । अहमेवं मन्ये, यांदमयन्तीं आलोकने-वीक्षणे कौतुकं आलोकनकौतुकं लोकस्य आलोकनकौतुकं लोकालोकनकौतुकं तस्मै पश्यन् लोको द्रष्टव्यदर्शनात् - दृष्टिफलं प्राप्नोतु इत्यर्थं बहुना -भूयसा शिल्पश्रमेण आदरात् विधाय - कृत्वा विधिना - वेधसा सृष्टेः सर्गस्य ध्वजारोहणं - उपरि पताकोपन्यसनं विहितम् । ध्वजो हि प्रासादं पूर्णं निर्माप्य उपर्येव विधीयते तथा विधिना सर्वां सृष्टिं विधाय इयं पताकोपमा विहिता, सर्वोत्कृष्टेयमित्यर्थः ।। ४३ ।।
अहो आश्चर्यम्
रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु ।
दृश्यते तत्र तत्रैव बलाद्वाणकर : २ स्मरः ॥ ४४ ॥
अहो आश्चर्यं -अत्यद्भुतमेतत्, एकार्थो द्विरुक्तः शब्दस्तदतिशायित्वं व्यनक्तीति । रङ्गेति । तु पुनरर्थे, पुनः कुरङ्गाक्ष्याः - दमयन्त्या यत्र यत्र अ- अवयवे मे - मम चक्षुः-नेत्रं रङ्गति-गच्छति तत्र तत्रैव बलात् - हठात् बाणकर :- करगृहीतशरः स्मरो दृश्यते । तस्य साधिष्ठानत्वात् मया स्मरबाण बाधा प्राप्यते इत्यर्थः ॥ ४४ ॥
कथमियमन्यार्थे३ प्रार्थ्यते । तद्दह्यतामयं परप्रेष्यभावः ४ ।
यतः - तिरयति स्वातन्त्र्यसुखम्, अभिमुखयति" पारवश्यक्लेशम्, आमन्त्रयति तिरस्कारम्, आदरयति दैन्यम् आह्वयति लघिमानम्, आवाहयति६ हास्यपदम् ", आनय ' त्यौचित्यभङ्गम्, अङ्गीकारयति कार्पण्यम्, अपहस्तयति वस्तुभावम, पुरुषस्य् ।
इयं-दमयन्ती अन्येषां-इन्द्रादीनामर्थे - अन्यार्थे कथं प्रार्थ्यते - याच्यते ? तत् तस्मात् अयं परस्य प्रेष्यभावः-दासत्वं दूतत्वमित्यर्थः, दह्यताम् ।
यतः परप्रेष्यभावः१ पुरुषस्य स्वातन्त्र्यस्य - स्वेच्छाचारित्वस्य स्वान्त्र्यरूपं वा यत्सुखं तत् तिरयति-आच्छादयति, स्वातन्त्र्यसुखं दूरीकरोतीत्यर्थः । तथा पारवश्यस्य पराधीनतायाः यः क्लेशः-सन्तापस्तं अभिमुखं सम्मुखं करोति अभिमुखयति, पराधीनता - क्लेशं जनयतीत्यर्थः । तथा तिरस्कारं - तर्जनं आमन्त्रयति-आह्वयति, तिरस्कारं विधत्ते इत्यर्थः ।
१. परप्रेष्यभावस्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776