Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 724
________________ सप्तम उच्छवासः ५७९ अनन्तरं-परस्परं मुखप्रेक्षणात् पश्चात् नलः आप्ता-यथार्थवादिनी या सखी तस्या वचनेन यथा हे दमयन्ति ! प्रियाय अर्घ देहीत्येवंरूपया गिरा स्वयं-आत्मना अर्घः-पुष्पाञ्जलिस्तस्य 'दाने उद्यतां-प्रवृत्तां तां-दमयन्तीं इति अभिधाय तस्यां-दमयन्त्यां सखीभिः-वयस्याभिः सह परिमित:-अल्पो यः परिहास:-लीलापूर्वको हासस्तेन किमपि-किञ्चित् ता जल्पयन्-सम्भाषयन्, किमपि स्वयं हसन्, किमपि ता:२ हासयन् मुहूर्त्तमिव आसाञ्चक्रे-तस्थौ । इति अभिधायेत्यत्र इतीति किम् ? हे उत्पलाक्षि!-कुवलयलोचने ! प्रयासेन-अर्घदानव्यायामेन अलं अलं-प्रयासं मा कुरु इत्यर्थः । अलमिति वारणेऽव्ययम् । खलु-अनुनये, अनुनयः-प्रसादनं, दमयन्त्या एव यतस्त्वं परिश्रमस्य-खेदस्य पात्रं-भाजनं न असि, न त्वं व्यायामसहेत्यर्थः । यतः पारिजातमञ्जरी जरठपवनेन-कठोरवायुना यत् प्रेखोलनं-दोलनं तेन य आयास:-श्रमस्तं न सहते। दमयन्त्या कल्पतरुमञ्जरी अर्घदानव्यायामस्य जरठपवनप्रेखोलनमुपमानम् । किम्भूताभिः सखीभिः ? स्वादव:-सुन्दरा मृष्टा वा, दुर्लभा:-दुःप्रापा या सूक्तयः-सुभाषितानि ता एव सुधासेक:-पीयूषोक्षणं तेन कोमला:-मृदवो ये आलापास्तेषु पण्डिताभिः-कुशलाभिः, मधुरवचनोक्तिविदुराभिरित्यर्थः । "स्वादुस्तु सुन्दरे मृष्टे" [२।२४०] इत्यनेकार्थः । चिन्तितवांश्चचिन्तितवांश्च-३नलोऽपि विचारितवांश्चरे। किंतत् ? लीलाताण्डवितभ्रुवोः स्मरभरश्रान्तोल्लसत्तारयोरन्तमौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः । किंचित्साचिदृशोः कृतानिलचलनीलोत्पलस्पर्धयोंरुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥ लीलेति । पक्ष्मले-रोमवत्यौ दृशौ यस्याः सा तस्याः-दमयन्त्या किञ्चित्-मनाक् साचिदृशो-तिर्यक्नेत्रयोः कान्तिर्मदीये मुखे उल्लोलैरिव-तरङ्गैरिव याति-स्फुरति । यथा तरङ्गाः परम्परया स्फुरन्ति तथा दमयन्तीनेत्रकान्तिर्मन्मुखे इति, पुनः पुनर्मां वीक्षत इत्यर्थः । पक्ष्माणि-रोमाणि सन्त्यस्मिन् इति पक्ष्मलं “सिध्मादित्वात्" [पा० सू० ५।२।४७] लः । किम्भूतयोः दृशोः ? लोलया-विलासेन ताण्डविते-नतिते ध्रुवौ याभ्यां ते तयोः, तथा स्मरभरेण-कामातिशयेन श्रान्ते-खिन्ने उल्लसन्त्यौ-चञ्चन्त्यौ तारे-कनीनिके ययोस्ते तयोः, तथा अन्त:-मध्ये मौक्तिकमालिकावत् धवलयो:-वलक्षयोः, तथा मुग्धस्मितेनमनोज्ञेषद्धास्येन स्मेरयोः-विकस्वरयोः, तथा कृता-विहिता अनिलेन-वायुना चलती १. जल्पन् किमपि किंचिततां अनू. । २. तां अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776