Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 725
________________ दमयन्ती - कथा - चम्पूः कम्पमाने ये नीलोत्पले - कुवलये तयो: स्पर्द्धा - संहर्षो ययोस्तयोः । दृशोश्चलनात् वायुकम्पितनीलोत्पलोपमानम् ॥४१॥ . अपि च ५८० दरमुकुलितनेत्रप्रान्तपर्यस्ततारं, तव तरुणि सलज्जं सस्मितं सस्मरं च । क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ, मयि चलति वलक्षं वीक्षितं मा निरोधी : १ ॥ ४२ ॥ अपि च- पुनश्चिन्तितवान् रेति । हे तरुण ! - दमयन्ति ! क्षणं यावत् अभिमुखं तव सम्मुखं वक्त्रं- आननं यस्य तथाविधे मयि तव एवंविधं वलक्षं धवलं वीक्षितं - अवलोकनं त्वं मा निरोधी:- मा वारय, पुनः पुनर्मां वीक्षस्वेत्यर्थः । किम्भूते मयि ? विस्मयेन - आश्चर्येण स्मेरा-विकस्वरा दृष्टिर्यस्य स तस्मिन् । पुनः किम्भूते मयि ? चलति अत्र स्वल्पकालावस्थानाच्चञ्चले अतएव मयि वीक्षणव्याघातं मा कार्षीरित्यर्थः । किम्भूतं वीक्षितम् ? दर:- ईषत् मुकुलितौ - संकोचितौ यौ नेत्रप्रान्तौ तयोः पर्यस्तेविक्षिप्ते तारे-कनीनिके यत्र तत्, अतएव धवलं वीक्षितं । पुनः किम्भूतं ? सलज्जं - सव्रीडं, तथा सस्मितं - सविकासं, च- पुन: सस्मरं - सकामम् ॥ ४२ ॥ किंचान्यदपरमिदमाशास्महे लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययो? स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्त्रं समाः । लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरान्मन्येऽहं विधिना विधाय विहितं सृष्टेर्ध्वजारोहणम् ॥ ४३ ॥ किञ्च-पुनः अन्यत्-अपरं न विद्यते परं प्रकृष्टं यस्मात् तदपरं - अत्युत्कृष्टमिदंवक्ष्यमाणं आशास्महे - इच्छामः १ । “आङः शासु इच्छायाम् ।" [पा०धा० १२२] लावण्येति । इयं दमयन्ती सहस्रं समाः - वर्षाणि यावत् जीव्यात्- जीवतु । किम्भूतेयम् ? लावण्यं-नयनलेह्यं स्निग्धत्वं तदेव अमृतं सुधा तस्य दीर्घिकेव-वापीव या सा । यथा दीर्घिका अमृतेन भृता भवति तथेयमपि लावण्येनेति । तथा सौन्दर्यं च Jain Education International १. आशिषं द अहे अनू. सेठिया । २ नास्ति अनू. । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776