Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
दमयन्ती - कथा - चम्पू:
५८२
तथा दैन्यं दीनतां आदरयति - गौरवयति, दीनतां कुरुत इत्यर्थः । तथा लघिमानं - लाघवं आह्वयति- आमन्त्रयति । तथा हास्यपदं- हास्यस्थानकं आवाहयति - कारयति, हास्यं कारयतीत्यर्थः । आङ्पूर्वकस्य वहतेः करोत्यर्थत्वात् । तथा औचित्यभङ्गं - करणीयविध्वंसं आनयति-प्रापयति । तथा कार्पण्यं - कृपणतां भयातुरतां अङ्गीकारयति - अभ्युपगमयति, भयातुरं करोतीत्यर्थः । अत्र कृपणशब्दो भयातुरार्थः ।
"पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ।” [१|१३३]
इति नैषधपद्यव्याख्यैकदेशे कृपणे दीने भयातुरेवेति वाक्यात् । तथा वस्तुभावं - वस्तुस्वरूपं अपहस्तयति - अधरयति, पौरुषं दूरीकरोति । पुरुषस्येति पदं सर्वत्र योज्यते ।
तथाहि
तथाहीति । तदेव परप्रेष्यताभावस्य असत्त्वं दर्शयति
सोच्छ्वासं मरणं निरग्निदहनं निःशृङ्खलं बन्धनं, निष्पङ्कं मलिनं विनैव नरकं सैषा महायातना । सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ४५ ॥
सोच्छ्वासमिति । सुधियः - बुद्धिमतो जनस्य सेवासंजनितं वरिवस्याकृतं पारवश्यं - पराधीनत्वं धिक् । किम्भूतं पारवश्यम् ? सोच्छ्वासं - उच्छ्वाससहितं मरणं, अन्यन्मरणं निरुच्छ्वासं इदं च सोच्छ्वासमिति । परवशजनो जीवन्नपि मृत एवेति भावः । १ । तथा दहनंभस्मीकरणं निरग्नि:-अग्निरहितं । अन्यद्दहनं अग्निना भवति इदं चाग्नि विनापि । २ । तथा निःश्रृंखलं शृंखलारहितं बन्धनं । अन्यद्बन्धनं श्रृंखलया भवति इदं श्रृंखलां विनापि । ३ | तथा नि:पंकं - पङ्कं विना मलिनं, मालिन्यं भावप्रधानत्वान्निर्देशस्य, अन्यन्मालिन्यं पंकेन भवति, इदं पङ्कं विनापि । ४ । तथा नरकं - दुर्गतिं विनैव सा एषा महायातना - महापीडा । ५ । पुनः पारवश्यस्य धिक् त्वं । कुतः ? यतो हेतो: पञ्चानां मरणदहनबन्धनमालिन्यनरकरूपाणां पातकानां मध्ये एतत् पारवश्यं अपरं - अन्यत् सविशेषंअतिशायि षष्ठं महापातकं - महापापम् ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776