Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तम उच्छ्वासः
J
मदिरा-मद्यपानं मदनयति - मदनवन्तं करोति । " तत्करोतीति णिच्" [ विन्मतोर्लुक् इति मतुप् प्रत्ययस्य लुक्" । तथा तारुण्यं यौवनं तरलयति - चपलयति । तथा धनं अन्धयति-अन्धं करोति, व्याकुलं करोतीत्यर्थः । तथा मन्मथः - काम उत्पथयति उत्पथंउन्मार्गं करोति, उत्पथयति - उन्मार्गे प्रवर्तयतीत्यर्थः । तथा रूपाभिमानः-सौन्दर्यगर्वः विरूपयति-विरुद्धशब्दं करोति । "रूपं तुं श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च " [२-३०१-३०२ ] इत्यनेकार्थः । तथा गर्वः खर्वं करोति - आत्मानं नीचैर्विधत्त इति खर्वयति । सर्वत्र ' तत्करोति तदाचष्टे' [पा० गणपाठ ] इति णिच् । एतत् पूर्वोक्तं सर्वजनानां प्रसिद्धं विख्यातम् । किमु हे दमयन्ति ! इदं पूर्वोक्ते असत्यतां-अनृततां मा नैषी:- मा प्रापयः, त्वमपि तथैव कुर्वित्यर्थः । एतावता मां वृणीष्वेति ज्ञापितं, 'वा-अथवा तवाङ्गे - तव शरीरे सर्वमेतत् पूर्वोक्तं व्यभिचरतु - अन्यथाभवतु, मदिरादयो न मदनवत्तादिकारणानि भवन्त्वित्यर्थः । न हि शशिनि - चन्द्रे वह्नि : सम्भवति । न हि अमृते च विषाङ्कुराः सम्भवन्ति । तथा त्वं राशिपीयूषप्राया, मदनवत्ता तरलतादयो हि वह्निविषाङ्कुरप्राया:, अतएव त्वपि एते न सम्भवन्तीत्यर्थः । तदिति - यस्मान्मदिरादयास्त्वां मदनवत्तादिविशिष्टां कर्त्तुं न क्षमास्तस्मात् इयं देवादेशं माऽवज्ञासी:- मा अवगणय । यतः अमी लोकपालाः प्राणिनां- जन्तूनां सर्वथा प्रभवन्ति - समर्था भवन्ति । यथारुचिसुन्दरमसुन्दरं वा कुर्वन्तीत्यर्थः। तत्रापि - लोकमालेष्वपि विशेषतः - आधिक्येन सकलत्रिदशानां - समस्तदेवानामधिपतिः स्वामी तथा अशेषसुराणां समस्तनिर्जराणां यानि किरीटानि - मुकुटानि तेषु या मणिमयूखमाला - रत्नांशु श्रेणिस्तया अर्चितं - पूजितं चरणारविन्दं यस्य सः, सर्वदेवनम्य इत्यर्थः, एवंविधः पुरन्दरो देवः । तत् तस्मात् हे दमयन्ति ! त्वं अमीषां अमृतभुजां-लोकपालदेवानां मध्ये कमपि - पुरन्दरादिकं वृणु-स्वीकुरु । तथा स्वर्गस्य सुखानि मानय - उपभुंक्ष्व । मानिरिह उपभोगार्थः । तथा मर्त्यलोकस्य स्तोकानि - अल्पानि यानि सुखानि तेषां अभूमि :- अस्थानमसि । भूमिशब्दोऽत्र स्थानमात्रवाची । तथा चोक्तं कालिदासकविना रघुकाव्ये - "उटजाङ्गणभूमिषु" [१।१९] इति ।
५८५
एवंविधे च व्यतिकरे दमयन्त्या पुनरुक्तमिमं जल्पमरण्यकरिण्येवारुन्तुदमङकुशमसहमानया मनाक्तरलिते शिरसि, स्तोकीकृते मनसि, मुक्ते निःसहनिश्वासमरुति, परावर्तिते चक्षुषि, विवर्णतामानीते वदनारविन्दे, प्रस्तावपण्डिता प्रियम्वदिका प्राह ।
एवंविधे च व्यतिकरे - एतादृशप्रस्तावे राज्ञा देववरणस्वरूपे उक्ते सति, दमयन्त्या पुनरुक्तं इमं जल्पं-वाक्प्रपञ्चं असहमानया - सोढुमशक्नुवत्या सत्या मनाक् - ईषत् शिरसि
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776