Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 723
________________ दमयन्ती - कथा - चम्पूः अन्तरिति । लज्जया - व्रीडया मन्थरयोः - अलसयोस्तयोः - दमयन्तीनलयोः परस्परंअन्योन्यं मिलन्त्यौ-संयुज्यमाने ये दृष्टी तयोर्यः प्रपातः-अन्योन्यं वीक्षणमित्यर्थस्तस्मिन् अर्थाज्जाते सति, हृदये-उभयोश्चेतसि ते केऽपि - अद्भुताः सर्वे रसाः समकालमेव युगपदेव आविरासत्प्रकटीबभूवुः । तु:- विशेषे, विशेषेण ये रसास्तयोरन्तः - चित्ते एव केवलं परं उल्लसन्ति-उद्भवन्ति न पुनर्वाचां गोचरा:-विषया:, न वाग्भिर्वक्तुं शक्यन्त इत्यर्थ: । "तु विशेषेऽवधारणे समुच्छ्रये पादपूर्ती" [परि० १३-१४] इत्यनेकार्थः । तथा येषां रसानां भरतादयोऽपि कवयो विवेकंयुगपत् तेषामुद्भवात् विवेचनं कर्त्तुं विधातुं न क्षमा:-न शक्ताः ॥ ३९ ॥ अपि च । तत्र व्यतिकरे ५७८ कर्णान्तकृष्टवलयीकृतचापचक्रश्चञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः । लक्षद्वयेऽपि युगपद्विशिखान्विमुञ्च'न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥ अपि च- पुनः तत्र व्यतिकरे-तस्मिन्नवसरे I कर्णान्तेति । स्मर:- कामो लक्षद्वयेपि - दमयन्तीनलरूपवेध्ययुग्मेपि युगपत् - समकालं विशिखान्-बाणान् विमुञ्चन् सन् श्रमवान् खिन्नो अभूत् ? - बभूव । किम्भूतः स्मरः ? सन्धाने-बाणज्यासंयोजने सत्वरौ - शीघ्रौ करौ यस्य स सन्धानसत्वरकरो ज्यया सह शीघ्रं बाणं संयोजयन्नित्यर्थः । पुनः किम्भूतः स्मरः ? कर्णान्तं - श्रोत्रपर्यन्तं यावत्कृष्टं - कर्णान्तकृष्टं अतएव वलयीकृतं - मण्डलीकृतं चापचक्रं - धनुर्मण्डलं येन स तथा चञ्चन्- दीप्यमानो यो गुण:- प्रत्यञ्चा तस्य स्खलनेन - पुनः पुनः संघट्टनेन जर्जरितः सव्रणप्रकोष्ठः ३ कलाचिका यस्य सः ॥ ४० ॥ अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् "अलमल-मुत्पलाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते' इति रे दमयन्तीमभिधाय तस्याः स्वादुदुर्लभसूक्तिसुधासेक 'कोमलालापपण्डिताभिः सखीभिः सह परिमित-परिहासेन, किमपि जल्पयन् ", किमपि हसन्, किमपि हासयन्, मुहूर्त्तमिवासांचक्रे । १. तत्र च अनू. । २. अभूत् नास्ति अनू. । ३. सव्रण: अनू. I For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776