Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
५७६
दमयन्ती-कथा-चम्पू: साऽपि-विहङ्गवागुरिका सम्भ्रमः-आदरस्तेन सहितो यः प्रणामः सपूर्वो प्रथमो यत्र एवं यथा भवति तथा पूर्वं सादरं प्रणम्य पश्चात् इदं-वक्ष्यमाणं अवादीत् ।
किञ्चिदिति । हे स्वामिन् ! तव अतिथे: अनया सख्या दमयन्त्या समुचितंअभ्यागतजनयोग्यं किं न अनुष्ठितं-किं न कृतम् ? किन्तु अभ्यागतस्य यत् क्रियते तत् सर्वमपि कृतमित्यर्थः । तदेवाह-ननु-सम्यग्वादे, किञ्चित्-मनाक् कम्पितानि-चालितानि यानि पाण्योः कङ्कणानि-वलयानि तेषां ये रवा:-शिञ्जितानि तैः कृत्वा तव स्वागतं पृष्टम् । अन्योऽपि ब्रुवन्नेव स्वागतं पृच्छेदिति । "ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि" [परिशिष्ट. ६१] इत्यनेकार्थः । च-पुनः वीडया-लज्जया नम्र-नतं मुखाब्जं यस्याः सा एवंविधया अनया तव चरणयोर्नेत्रे एव उत्पले-कुवलये न्यस्ते-निहिते, अतिथेः किल पादयोरग्रे पूजार्थं उत्पले न्यस्येते एव, तथा अनया लज्जया वाङ्मुखत्वेन भवत्यादयोर्नेत्रे एवोत्पले न्यस्ते । तथाऽनया हृदि तव प्रवेशो दत्तः, त्वां इयं हृदि प्रावेशयदित्यर्थः । किम्भूते हृदि ? द्वारस्थं-प्रवेशमुखावस्थितं यत् स्तनयुगं तदेव मङ्गलघटौ यत्र तत्तस्मिन् । अन्योप्यतिथि: पूर्णकलसयुग्मसहितेन द्वारेण गृहान्तः प्रवेश्यते तथा तवापि ॥ ३७ ।।
तत् ससंभ्रमोत्थितयानया समर्पितमिदं समुल्लसन्मणिपर्यङ्किकामधितिष्ठतु देवः ।
त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमादूरवर्तिनीमध्यास्व ।।
भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभवेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम् ।
इति तयाभिहितौ तौ सत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्यङ्किकयोरुत्सङ्गभागं भेजतुः ।
तत्-तस्मात् ससंभ्रमं-सादरं यथा भवति तथा उत्थितया अनया-दमयन्त्या समर्पितं-दत्तं इदं समुल्लसन्त:-दीप्यमाना मणय:-रत्नानि यत्र एवंविधं यत् पर्यङ्किकाआसनं तत् देवः-नृपः अधितिष्ठतु-आश्रयतु ।।
हे देवि ! दमयन्ति ! त्वमपि इमां अदूरवर्तिनी-निकटस्थां विद्रुममणीनांप्रवालरत्नानां या पर्यंकिका तां अध्यास्व-आश्रय ।
च-पुनः परमुखेन-हंसादिद्वारेण श्रुतं अन्योन्यस्य स्वरूपं याभ्यां एवंविधयोर्भवतोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776