SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ५७६ दमयन्ती-कथा-चम्पू: साऽपि-विहङ्गवागुरिका सम्भ्रमः-आदरस्तेन सहितो यः प्रणामः सपूर्वो प्रथमो यत्र एवं यथा भवति तथा पूर्वं सादरं प्रणम्य पश्चात् इदं-वक्ष्यमाणं अवादीत् । किञ्चिदिति । हे स्वामिन् ! तव अतिथे: अनया सख्या दमयन्त्या समुचितंअभ्यागतजनयोग्यं किं न अनुष्ठितं-किं न कृतम् ? किन्तु अभ्यागतस्य यत् क्रियते तत् सर्वमपि कृतमित्यर्थः । तदेवाह-ननु-सम्यग्वादे, किञ्चित्-मनाक् कम्पितानि-चालितानि यानि पाण्योः कङ्कणानि-वलयानि तेषां ये रवा:-शिञ्जितानि तैः कृत्वा तव स्वागतं पृष्टम् । अन्योऽपि ब्रुवन्नेव स्वागतं पृच्छेदिति । "ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि" [परिशिष्ट. ६१] इत्यनेकार्थः । च-पुनः वीडया-लज्जया नम्र-नतं मुखाब्जं यस्याः सा एवंविधया अनया तव चरणयोर्नेत्रे एव उत्पले-कुवलये न्यस्ते-निहिते, अतिथेः किल पादयोरग्रे पूजार्थं उत्पले न्यस्येते एव, तथा अनया लज्जया वाङ्मुखत्वेन भवत्यादयोर्नेत्रे एवोत्पले न्यस्ते । तथाऽनया हृदि तव प्रवेशो दत्तः, त्वां इयं हृदि प्रावेशयदित्यर्थः । किम्भूते हृदि ? द्वारस्थं-प्रवेशमुखावस्थितं यत् स्तनयुगं तदेव मङ्गलघटौ यत्र तत्तस्मिन् । अन्योप्यतिथि: पूर्णकलसयुग्मसहितेन द्वारेण गृहान्तः प्रवेश्यते तथा तवापि ॥ ३७ ।। तत् ससंभ्रमोत्थितयानया समर्पितमिदं समुल्लसन्मणिपर्यङ्किकामधितिष्ठतु देवः । त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमादूरवर्तिनीमध्यास्व ।। भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभवेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम् । इति तयाभिहितौ तौ सत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्यङ्किकयोरुत्सङ्गभागं भेजतुः । तत्-तस्मात् ससंभ्रमं-सादरं यथा भवति तथा उत्थितया अनया-दमयन्त्या समर्पितं-दत्तं इदं समुल्लसन्त:-दीप्यमाना मणय:-रत्नानि यत्र एवंविधं यत् पर्यङ्किकाआसनं तत् देवः-नृपः अधितिष्ठतु-आश्रयतु ।। हे देवि ! दमयन्ति ! त्वमपि इमां अदूरवर्तिनी-निकटस्थां विद्रुममणीनांप्रवालरत्नानां या पर्यंकिका तां अध्यास्व-आश्रय । च-पुनः परमुखेन-हंसादिद्वारेण श्रुतं अन्योन्यस्य स्वरूपं याभ्यां एवंविधयोर्भवतोः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy