SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छासः ५७५ त्वं मया वन्द्यसे-नमस्क्रियसे, यस्याः तव भुवः अयं-नलः पतिः । मातृशब्दं जननीपर्यायमपि । स्त्रियः सपत्न्यादिष्वपि प्रणयसम्बोधने प्रयुञ्जते इति नले भूपतावपि अर्थिन्या दमयन्त्या मातर्मेदिनीति सम्बोधनं न दुष्टम्, अन्यथा सपत्नीं प्रति मातः इत्यामन्त्रणमनुचितम् ।। ३६ ॥ एवं चिन्तयत्येव तत्कालमाकूतकौतुकहर्षभयाद्यनेकरसपरम्परया' परावर्तितनयनोत्पला लज्जावनमितमुखी विधेयविवेकवैकल्य मभजत । एवं-अमुना प्रकारेण चिन्तयन्त्येव तत्कालं-तत्समयमेव आकूतं च-मिलनाभिप्रायः, कौतुकं च-कुतूहलं कुत एवमागत इति, हर्षश्च-प्रियावलोकनात्, मयं च-पित्रादिभ्यः कथमेवं अपरिणीतैव अनेन सह वार्ता विधत्त इति, एतानि आदौ येषां ते एवंविधा ये अनेके-बहवो रसास्तेषां या परम्परा-परिपाटी तया परावर्तिते-पश्चान्मुखीकृते नयनोत्पले यया सा, तथा लज्जया अवनमितं-ईषदवाङ्मुखीकृतं मुखं यया सा एवंविधा सती विधेयस्य-कर्त्तव्यस्य यो विवेकः-विमर्शस्तस्य वैकल्यं-राहित्यं अभजत् । सम्प्रति किं विधेयमित्यादिना किञ्चिदज्ञासीदित्यर्थः । नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः, यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः' इति तस्याः समीपवर्तिनी पूर्वपरिचितां किन्नरीमभाषत । ___नलोऽपि इति-अमुना प्रकारेण तस्याः-दमयन्त्याः समीपवर्तितुं शीलं यस्याः सा तां समीपवतिनी पूर्वपरिचितां-पूर्वसंस्तुतां किन्नरीमभाषत-सम्भाषितवान् । इतीति किम् ? विहङ्गवागुरिके ! भवत्स्वामिन्याः किं एवंविधः समाचारः-समाचरणं वेष्टनं २ यत् अभ्यागतजनेन-सम्मुखप्राप्ताऽतिथिजनेन सह अन्यत् तिष्ठतु, स्वागतालापमात्रकेणाऽपि-भवतां स्वागतमिति कथनमात्रेणापि व्यवहारो न क्रियते । सापि ससंभ्रमप्रणामपूर्वमिदमवादीत्'किञ्चित्कम्पितपाणिकङ कणरवैः पृष्टं ननु स्वागतं, व्रीडानम्रमुखाब्जया चरणयो-स्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हदि, स्वामिन्कि न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम् ॥ ३७ ॥ १. समीपे अनू. । २. चेष्टनं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy