SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ५७४ दमयन्ती-कथा-चम्पू दमयन्त्यपि इति हर्षोत्कर्षेण गद्गदा-अव्यक्ताक्षरा या गीस्तया गीतमुत्सृज्य-मुक्त्वा ससंभ्रमं-सादरं यथा भवति तथा उत्थिता याः कुब्जवामनकन्यकास्तासां मृदुकरतलाभ्यां या तालिका-करास्फोटस्तेन कलित:-सहितो य: कलकलः-कोलाहलस्तेन मनाक् विलासेन वलितं-पराङ्मुखीकृतं मुखं यया सा, एवंविधा सती तदभिमुखं-नलसम्मुखमवलोक्य शय्यातलात् उदचलत्-उत्तस्थौ । ईतीति किम् ? हे देवि ! भवतीं 'वर्द्धयामो वर्द्धयामः', सम्भ्रमे द्वित्वं, कोपि-अद्भुतमहिमा-कस्याश्चित्-सद्भाग्यवत्या जीवितेश्वरः-प्रियतमो अत्रैव-समीप एव आगतो दृश्यते । 'आः कुतोऽस्यानेक प्राकाररक्षकरक्षिते पक्षिणामपि दुष्प्रवेशे विशेषतो रजन्यां २कन्यान्तःपुरे३ प्रवेशः' इत्यद्भुतरसावेशस्तिमितेन . किंचित्साचि संचारितेन चक्षुषा पुनः"पुनर्नलमवलोक्य चिन्तयांचकार । ___ आ:-प्रकोपे, असंभाव्यवाक्योच्चारात् सखीः प्रति कोपः । “आः सन्तापप्रकोपयोः" [परि० १३] इत्यनेकार्थः । अस्य-नलस्य अनेकप्रकारा ये रक्षकाःरक्षयितारस्तै रक्षिते-प्रतिजागरिते, तथा पक्षिणामपि दुःप्रवेशे-प्रवेष्टुमशक्ये विशेषतो रजन्यांरात्रौ कन्यान्तःपुरे कुतः प्रवेशः ? इत्यद्भुतरसावेशेन-आश्चर्यरसप्रवेशेन स्तिमितं-निश्चलीकृतं यत्तत् तथाविधेन, तथा किञ्चित्मनाक् साचि-तिर्यक् सञ्चारितेन-प्रवर्तितेन चक्षुषा पुनर्नलं अवलोक्य चिन्तयाञ्चकार । यदचिन्तयत् तदाहधन्या काप्युपरोधिता द्रितनया यस्यास्त्वमाह्लादयन्मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि । धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं, मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः ॥ ३६ ॥ धन्येति । सा काऽपि भाग्यवती युवती धन्या-पुण्यवती । किम्भूता ? उपरोधिताप्रसादिता अद्रितनया-गौरी यथा सा उपरोधिताद्रितनया यस्या:-युवत्याः कण्ठे त्वं मुक्ताहार इव आह्लादयन्-आह्लादं कुर्वन् तथा प्रसारितौ भुजौ येन एवंविधः सन् विलोठिष्यसिविलुठनं करिष्यसि संश्लेक्ष्यसीत्यर्थः । यथा मुक्ताहारः कण्ठे आह्लादयन् सन् विलुठति तथा त्वमपि । तातेति कोमलामन्त्रणे हे मात ! हे धातः !-वेधः ! तव श्रमं-जगन्निर्माणखेदं अद्य अमुना-नलेन सृष्टेन धन्यं-सफलं मन्ये-जाने । हे मातः । मेदिनि अपरं-अन्यत् किं? Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy