SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ५७३ सप्तम उच्छ्वासः भ्रमितानि, कौतुकेनोत्तानितानि, व्रीडया वलितानि, मुदा मिलदरालपक्ष्माणि, स्मराकूतेन विलुलितानि, दिदृक्षारसेनानिमिषाणि, दृष्टिसंघट्टनेन मुकुलितानि', चिरं चचूंषि बिभ्राणाः किमपि चलितासनम्, उत्कम्पितहृदयम्, अपसरधैर्यम्, अवगलत्स्वेदसलिलम्, उत्पुलकिताङ्गम्, अनङ्गभगुरम्ने, अवलोकितान्योन्यमुखमवतस्थिरे तदभिमुखाः सख्यः । ___ अथ तस्मिन्नले प्रविष्टे च सति, सख्यः एवंविधानि चक्षूषि, चिरं बिभ्राणा:दधानाः सत्यस्तदभिमुखाः तं-नलं अभिसंमुखं मुखं य़ासां तास्तदभिमुखाः, किमपिकिञ्चित् चलितं-कम्पितं आसनं-पीठं यत्र एवं यथा भवति, तथा किमपि उत्कम्पितं हृदयं चेतो यत्र एवं यथा भवति तथा, किमपि अवगलत्-ईषत् क्षरत् स्वेदसलिलं यत्र एवं यथा भवति, तथा किमपि उत्पुलकितानि अङ्गानि-अवयवा यत्र एवं यथा भवति, तथा किमपि अनङ्गेन-कामेन भङ्गरं-वक्रं यथा भवति तथा, किमपि अवलोकितं-वीक्षितं अन्योन्यस्यपरस्परस्य *स्त्रीनपुंसकयोरिति स्त्रीनपुंसकयोर्यत्सर्वनामकर्मव्यतिहारे वर्तने तस्योत्तरपदस्य या विभक्तिस्तस्याः स्थाने आम् भावो वा वक्तव्य इत्यर्थः, अन्योन्यां परस्परामिति । द्विर्वचनं विभक्ते राम् भावः पूर्वपदस्य सुः । पक्षे, अन्योन्यमित्यादीनि स्त्रियां समासवद्भावात् सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति टापो निवृत्तिः प्रसादे* मुखं यत्र एवं यथा भवति तथा अवतस्थिरे-तस्थुः । किम्भूतानि चढूंषि ? आकस्मिक:-अकस्माज्जातो यो विस्मयः-आश्चर्यं तेन विस्फारितानि-विकासितानि, तथा भयेन कोऽयं अकाण्डे एव आगत इति भीत्या भ्रमितानि-कम्पितानि, तथा कौतुकेन उत्तानितानि-उन्मुखीकृतानि, तथा वीडया-लज्जया वलितानि-परिवर्तितानि, तथा मुदा-हर्षेण मिलन्ति-संयुज्यमानानि अरालपक्ष्माणि-वक्रनेत्ररोमाणि येषु तानि, तथा स्मराकूतेन-कामाभिप्रायेण विलुलितानिकम्पितानि मृदितानि वा, तथा दिदृक्षारसेन-अवलोकनेच्छारागेण अनिमिषाणिअसंकोचितानि, ता दृष्ट्योः संघट्टेन-संश्लेषेण इतो नलदृक् ततः सखीनामिति नयनयोः संयोगेन मुकुलितानि-मीलितानि ।" दमयन्त्यपि 'देवी, वर्धयामो वर्धयामः कोऽपि कस्याश्चिज्जीवितेश्वरोऽयमत्रैवागतो दृश्यते' इति हर्षोत्कर्षगद्गगिरा, गीतमुत्सृज्य ससंभ्रमोत्थितकुब्जवामनकन्यकानां मृदुकरतलतालिकाकलितकलकलेन मनाग्विलासवलितमुखी तदभिमुखमवलोक्य शय्यातलादुदचलत् । १. चिहान्तर्गतपाठो नास्ति अनू. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy