________________
दमयन्ती - कथा - चम्पू:
५७२
पुनः किम्भूतयोः ? काञ्चिद् अद्भुतां लक्ष्मीं - शोभां बिभ्राणयो: - धारयन्त्यो:, तथा चञ्चत्दीप्यमानो भ्रूरेव भङ्गः - तरङ्गः सभागे - एकदेशे ययोस्तयोः । यदा तु 'चञ्चद्भूभृङ्गसङ्गयोः' इति पाठस्तदा चञ्चन्तौ भ्रुवावेव भृङ्गौ तयो: संगो यत्र तयोः । अब्जान्यपि लक्ष्मीं बिभ्रति तथा चञ्चन्तः - विलसन्तो भ्रूवत् कुटिला ये भङ्गास्तरङ्गास्ते भागे - एकदेशे येषां तानि, सरो मध्यगतत्वात् । 'पद्मानां भ्रूभृङ्गेति पाठे चञ्चन्तो भ्रूवत् कृष्णा ये भृङ्गास्तेषां संयोगो यत्र तानि ॥ ३४ ॥
अपि च
किन्नरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति ।
हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च ॥ ३५ ॥
अपि च- पुनः
किन्नरेति । किन्नरवदनात् विनिर्गतं निःसृतं यत् पञ्चमगीतमेवाऽमृतं आह्लादजनकत्वात् पीयूषं तस्मिन् श्रुतिं कर्णं श्रयति सति - श्रूयमाणे सति हरिणीदृशो दमयन्त्याः सालसा-मन्थरा चासौ वलिता च पश्चादवलोकनाय प्रवर्तिता च सालसवलिता, चपुनर्लुलिता च - ईषदधो नमन्ती - कम्पिता वा दृक् हरति वशीकुरुते, मन इति अध्यायते । "लुलि सौत्रः, लुल्यते लुलितम् " [ ]। यत एव हरिणीदृक् अतएव गीतानुरागलक्षणं हरिणीहेवाकमनुसरति ॥ ३५ ॥
इत्यनेकविधानि चिन्तयन्मन्दमृदु लीलापदैरागत्य गीतगोष्ठीस्थितस्य 'कोऽयम्' इति विस्मय' विस्फारितविलोचनस्य' संभ्रमवतः सखी - कदम्बकस्य मध्यमविशत् ।
इति-पूर्वोक्तानि अनेकविधानि चिन्तयन् सन्नलः मन्दै:-मन्थरैः मृदुभिः-सुकुमारैः लीलापदै:- लीलया पदन्यासैः आगत्य सखीकदम्बकस्य वयस्या वृन्दस्य मध्यं अविशत्प्रविवेश । किम्भूतस्य सखीकदम्बकस्य ? गीतगोष्ठ्यां - गानसभायां स्थितस्य, तथा कोऽयमिति विस्मयेन आश्चर्येण विस्फारितानि विकसितानि विलोचनानि येन तत्तथाविधस्य, तथा सम्भ्रमः - भयं तद्विद्यते यस्य तत्तस्य सम्भ्रमवतः - भीतस्येत्यर्थः । “सम्भ्रमो भीतौ संवेगादरयोः " [ ३।५०४] इत्यनेकार्थः ।
प्रविष्टे च तस्मिन्, आकस्मिकविस्मयेन विस्फारितानि, भयेन
१. विकासितानि अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org