SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः ५७१ अग्निस्तेन यो दाहस्तन्मयीं-तद्विकाररूपां व्रणलेखां हृदयेन-मध्यभागेन उद्वहति-बिभर्ति । अन्योऽपि कराभ्यां अनलं स्पृशन् सन् तद्दाहमयीं व्रणलेखां बिभत्र्येव । विकारे मयट् । __ अयमपि समीपोद्यानस्य-निकटवनस्य यो मारुत:-वायुः स अस्याः-दमयन्त्याः समर्पितः-दत्तः कुसुमानां गन्धः-सुरभिपरिमलो येन एवंविधः सन्, शनैरुत्तरांशुकं-उपरिवास आक्षिपन्-अपनयन्, मदनेन आतुरः-पीडितस्तिर्यक् पतति । अन्योऽपि स्मरातुरः कुसुमगन्धकस्तूरिकादि चार्पयन् संव्यानाकर्षणपरस्तिर्यक् पतति । सर्वथा-सर्वप्रकारेण मनुष्यलोकेन जितं, यत्र मनुष्यलोके अचिन्त्यं-चिन्तयितुशक्यं, तथा न आलोचनस्य-विचारणस्य गोचरो विषयो यत्तत्, तथा अप्रतिरूपं-असदृशं, तथा अद्भुतं-आश्चर्यरूपं, तथा अमूल्यं-अनर्घ्यं स्त्रीरत्नं उदपद्यत-जातम् । आ इति सन्तापे, प्राप्स्यते न वा इति सन्देहात् सन्तापः, "आः सन्तापप्रकोपयोः" [अने० परि० १३] इति वचनात् । हे प्रजापते !-विधे ! त्वं परिणतं-परिपक्वं शिल्पं-विज्ञानं यस्य स एवं विधोऽसि-एवंविध भैमीनिर्माणात् । तथा हे संसार ! त्वं सनाथोऽसिसप्रभुरसि । तथा हे मदन ! त्वं महोत्सववानसि-महामहं प्राप्तवानसि । तथा हे चक्षुः !-नेत्र ! त्वं कृतार्थं-कृतकृत्यं सफलं असि । तथा हे हृदय !-चेतः ! त्वं पूर्णा मनोरथा यस्य तत्तथाविधं असि । तथा दूरागमनाद् यः श्रमो दूरागमनश्रमस्तस्य सम्बोधने हे दूरागमनश्रम ! त्वं सफलोऽसि-फलवान् वर्त्तसे, यत एवंविधा भैमी मया आलोकितेति । तथ सकलयुवजनानां यानि मनांसि तान्येव मधुकरास्तेषां आकृष्टौ-आकर्षणे कुसुमितलतिकेव-पुष्पितव्रततिरिव या सा । यथा कुसुमितलतया भृङ्गा आकृष्यन्ते तथा त्वया युवजनमनांसीति तस्याः सम्बुद्धौ हे सकलयुवजनमनोमधुकराकृष्टि कुसुमितलतिके ! तथा निजनयनाभ्यां निर्जितं राजीवं यया सा तस्याः सम्बोधने हे निजनयननिर्जितराजीवे ! हे दमयन्ति ! त्वं चिरं जीव । तथाहितथाहीति । तस्या नयनवर्णनामेवाह लक्ष्मी बिभ्राणयोः कांचिच्चञ्चभ्रूभङ्गभागयोः । बलि यामो वयं तन्वि ! तवान्यसदृशोद्देशोः ॥ ३४ ॥ लक्ष्मीमिति । हे तन्वि !-दमयन्ति ! तव दृशोः-नेत्रयोर्वयं बलिं याम:-उपहारी भवामः, इति परमप्रीतिगर्भा लोकोक्तिः । किम्भूतयोद्देशोः ? अब्जसदृशो:-पद्मसमानयोः । १. ०मधुकाराकृष्ट० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy