SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ ५७० मन्ये च । विस्फारिततारेक्षणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् । अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानलदाहमयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति । अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्तरीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति । सर्वथा जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगोचरम्, अप्रतिरूपम्, अद्भुतम्, अमूल्यमुदपद्यत " स्त्रीरत्नम् । आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सववानसि चक्षुः कृतार्थमसि । हृदय पूर्णमनोरथमसि । दूरागमनश्रम सफलोऽसि । ? , सकलयुवजनमनोमधुकराकृ ष्टिकु सुमितलतिके ६ निजनयननिर्जितराजीवे जीव चिरम् । तां च-दमयन्तीमवलोक्य नलश्चिन्तितवान् । अहो इति अद्भुते स्थाने लोकपालानां शक्रादीनामभिनिवेशः- परिणयनाग्रहः, अशेषसुखानां - समस्तसौख्यानां यन्निधानं आस्पदं तस्मै कः पुरुषो न स्पृहयति - अभिलषति ? अपितु सर्वोऽपि स्पृहयति । स्पृहेरीप्सित इति स्पृहयतेरिष्टस्य निधानस्य सम्प्रदानसंज्ञा । दमयन्ती - कथा - चम्पूः = चः-पुनः अहमेवं मन्ये विस्फारितानि-विजृम्भितानि तारानक्षत्राण्येव ईक्षणानि - नेत्राणि तैः कृत्वा इमामेव*दमयन्तीं पश्यन् अयमाकाशः सग्रहः- ग्रहैः सूर्यादिभिः सहितो अभूत् । पक्षेविस्फारितास्तरोः कनीनिका येषु एवंविधानि यानि ईक्षणानि तैः कृत्वा इमामेव पश्यन् ग्रहो भूताद्यभिनिवेशस्तत्सहितोऽभूत् । ** चिह्नान्तर्गत पाठो नास्ति अनू. । Jain Education International च-पुनः अहमेवं मन्ये, अयं चन्द्रः चन्दनवत् पाण्डुभिः श्वेतैः करैः किरणैः इमामेव-दमयन्तीं परामृशन् - स्पृशन् सन् कलङ्कच्छलेन - लक्ष्मदम्भेन मदन एव अनल: " For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy