________________
५६९
सप्तम उच्छासः उत्प्रेक्ष्यते, अमृतद्रवरूपा ये वर्णका:-शुक्लादयस्तैर्विचित्रिता-विशेषेण चित्रिता अवयवाःअङ्गानि यस्याः सा एवंविधामिव । अङ्गे क्वचित् शुक्लतायाः, क्वचित् पीततायाः, क्वचित् कृष्णतायाश्च अवलोकनात् । मन्ये, पीयूषद्रववर्णकैरेव चित्रिताङ्गीति' । पुनः किम्भूताम् ? उत्प्रेक्ष्यते, आनन्दस्य कन्दलैः-प्ररोहैर्घटितामिव-निर्मितामिव, द्रस्ट्रीणामानन्दजनकत्वात् । पुनः किम्भूताम् ? उत्प्रेक्ष्यते, मोहनमणिशिलायां उत्कीर्णामिव-विभक्तीकृतामिव युवजनमनोमोहजनकत्वात् । तथा शृङ्गार एव दारु-काष्ठं तस्मिन् उत्कुट्टितामिव-घटितामिव । तथा वशीकरणस्य-वशवर्तिताविधानस्य ये परमाणवस्तै विनिर्मितामिव-निष्पादितामिव, सर्वस्यापि वशकारित्वात् । तथा मदनमदावेव मृत्पिण्डस्तेन निष्पादितामिव । तथा दृशोर्वज्रलेपस्य पुत्रिकामिव-पाञ्चालिकामिव, अत्र लग्ने दृशौ मन्ये वज्रलिप्ते इव नेतोऽपसरत इत्यर्थः । तथा हृदयस्य-चेतसः आकर्षमणे:-आकृष्टिरत्नस्य शलाकामिव । यथा आकर्षमणिशलाकया दूरस्थं वस्तु आकृष्यते तथाऽनया चेत इति । तथा अनुरागस्यप्रेमबन्धस्य जीवनौषधमिव, अनुरागोऽमृतोप्यनयोज्जीवतीत्यर्थः । तथा मदनस्य-कामस्य जयपताकामिव, कामेन सर्वं जगज्जित्वा इयं जयपताकेव उत्तम्भिता । पुनः किम्भूताम् ? एवंविधे सौधस्कन्धे ज्योत्स्ना-कौमुदी सैव अमृतं तस्य यः स्पर्शस्तं अनुभवन्ती-वेदयमानां । किम्भूते सौधस्कन्धे ? बहुलाभिः-प्रचुराभिश्चन्दनाम्बु-च्छटाभिरार्द्रिता-सिक्ता भूर्यत्र स तस्मिन्, अतएव धवलाङ्गणत्वात् विकीर्णः-विक्षिप्तः सुरभिपरिमलेन मिलन्तः-पुजीभवन्तो ये मधुकरास्तेषां रवेण-झंकारेण अनुमेयः-अनुमातुं योग्यः पाण्डुरपुष्पप्रकर:-धवलकुसुमसमूहो यत्र स तस्मिन् । चन्दनाम्बुच्छटाभिराड़ितत्वेन भुवो धवलत्वात् तत्र विकीर्णः श्वेतपुष्पप्रकरो मधुकरझंकारेणैव अनुमीयते यथाऽत्र पुष्पप्रकरो विद्यते भृङ्गारवश्रवणादिति । तथा मसृणःकोमल: सित:-धवलो यः सुधाबन्धः-लेपविशेषरचना तेन पिच्छिले-मनोजे । "पिच्छादित्वादिलच्" । [लोमादिपामादिपिच्छादिभ्यः शनेलचः, पा०सू० ५।२।१२०] पुनः किम्भूताम् ? अच्छा:-अमला अंशवः किरणा यत्र एवंविधा ये मणयश्च-रत्नानि वैदूर्यादीनि स्फटिकाश्च-चन्द्रकान्तमणयस्तेषां या पर्यङ्किका-लघुपल्यङ्कः तस्या अर्ध्वं-उत्सङ्गं भजति-आश्रयति या सा तां । "अल्पार्थे कन्" । [अल्पे, पा०सू० ५.३।८५] तथा न लब्धा निद्रा यया सा ताम् ।।
तां चावलोक्य चिन्तितवान् ।
'अहो' स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को न स्पृहयति ।
१. विचित्रताङ्गीति अनू. । २. परिमाणनः अनू. । ३. पाण्डुपुष्पप्रकरः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org