SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ५६८ दमयन्ती-कथा-चम्पू: किम्भूतया हारलतया ? उच्चौ-उन्नतौ यो कुचमण्डलौ-पयोधरौ तयोविलोलया-चपलया । उत्प्रेक्ष्यते, सस्मराः-सकामा ये सप्तर्षयः-मरीच्यादयो ग्रहाश्च-मङ्गलादयः गणानि चअभीच्यादीनि, यद्वा ग्रहाः-नक्षत्राणि गणा:-वृन्दानि तेषां पंक्त्येव-श्रेण्येव । मन्ये, हारलतायाममूनि मौक्तिकानि न, किन्तु सकामाः सप्तर्षिग्रहगणा एव दमयन्तीं आलिङ्गितुमागता इति । पुनः किम्भूताम् ? कर्णयोर्लग्नेन-प्रासेन तथा कुमुदमज्जरी द्वितीया-सहायीभूता यस्य एवंविधेन बालपल्लवेन-नवकिसलयेन विराजितं वदनं यस्याः सा तां । बालपल्लवेन केनेव? उत्प्रेक्ष्यते, ईषत्-मनाक कपोलपालिं-गण्डप्रान्तं परामशता-स्पृशता, तथा कृतश्चाट्कार:प्रियवचनोल्लापो येन एवंविधेन वसन्तसमयेन प्रहित:-मुक्तो यो दूतस्तेनेव' । शङ्के, कर्णोपान्ते असौ बालपल्लवो न, किन्तु वसन्तेन चाटूकारीस्तदूतः प्रेषित इति । पुनः किम्भूताम् ? अच्छाच्छै:-अतिशयेन अमलैः कस्तूरिकापङ्कस्य ये पत्रभङ्गाः-पत्रलतास्तैरलङ्कृते-मण्डिते भव्ये-सुन्दरे भुजाशिखरे-बाह्वग्रभागौ यस्याः सा तां । पत्रभङ्गैः कैरिव ? उत्प्रेक्ष्यते, लावण्यंसौन्दर्यमेव अमृतं तस्य रक्षायै आगतैः-आयातैर्भुजङ्गैरिव । अमृतं हि भुजङ्गै रक्ष्यते । शङ्के, अमी मृगमदपत्रभङ्गा न, किन्तु लावण्यामृतरक्षणाय भुजङ्गा एव आगता इति । पुनः किम्भूताम् ? आसन्नभुविनिकटाङ्गणे विकीर्णैः-विक्षिप्तै, पाण्डुपुष्पाणां प्रकरैः-समूहैः परिवृतांवेष्टितां । पाण्डुपुष्पप्रकरैः कैरिव ? उत्प्रेक्ष्यते, गगनादवतीर्य रूपावलोकने कुतूहलं-कौतुकं विद्यते येषां तानि रूपावलोकनकुतूहलीनि तथाविधैः नक्षत्रैरिव । मन्ये, अमी पाण्डुपुष्पप्रकरा न, किन्तु दमयंतीरूपावलोकने कौतुकान्नक्षत्राण्यमूनि नभसो अवतीर्य भैमी परिवृत्य संस्थितानीति । पुनः किम्भूतां दमयन्तीम् ? अच्छं-अमलं पाण्डुः-धवलं नेत्रपढें-वस्त्रविशेष परिदधानां-वसानाम् । उत्प्रेक्ष्यते. गुरुः-महत् यन्नितम्बबिम्बं-आरोहस्तस्य यत्स्पर्शसखं तल्लम्पटतया-तल्लालसतया नीवीप्रान्ते-उच्चयावसाने पुञ्जिता:-राशीकृतास्तरङ्गा येन स तथाविधं वस्त्रान्तरगतं-वासो मध्यप्राप्तं क्षीरोदमिव-क्षीराब्धिमिव । मन्ये, असौ नेत्रपट्टः परिहितो नास्ति, किन्तु नितम्बस्पर्शसुखाकांक्षया स्वतरङ्गान् नीवीप्रान्ते पुञ्जीकृत्य वस्त्रान्तर्गत: क्षीराब्धिरेवाऽयमुपागत इति । पुनः किम्भूताम् ? रौप्यनूपुरवलयेन विराजितो वामश्चरणपल्लवो यस्याः सा ता:३ । रौप्यनूपुरवलयेन केनेव ? उत्प्रेक्ष्यते, अहमेव-शेष एव दमयन्त्या स्वयंवरे वरणीयः-परिणेतव्य इति अर्थः-प्रयोजनं विद्यते यस्यासौ इत्यर्थी तद्भावस्तया इत्यभिलाषितया पादलग्नेन शेषोरगेणेव-अनन्तेनेव । मन्ये, वामचरणन्यस्त: पादकटकोऽयं न, किन्तु स्वविवाहाभ्युपगमं कारयितुं शेषाहिरेव पादे लग्न इति । पुन: किम्भूताम् ? उत्प्रेक्ष्यते, विविधाः-अनेक प्रकारा ये विलासास्त एव वर्तिका:-चित्रकरचित्रकूचिकास्ताभिराकारितामिव-आलिखितामिव । आकारशब्दात् नामकारितान्तात् सिद्धिः । आलेखनं हि स्वेच्छया विधानादद्भुतं भवति तथेयमपि अद्भुताकारेत्यर्थः । पुनः किम्भूताम् ? १. तेनैव अनू. । २. १. ०रूपावलोकन० अनू. । २. ताम् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy