________________
५७७
सप्तम उच्छ्वासः
इदानीं आत्मना-स्वयं अनुभवेन - अवलोकनेन नयनयोर्निर्वृत्तिसुखं भवतु । तथा सखीनां मनोरथाः-अभिलाषा यथेयं प्रियेण संगता भवतु इत्येवं रूपास्ते फलन्तु ।
इति- अमुना प्रकारेण तया - किन्नर्या अभिहितौ - उक्तौ तौ - दमयन्तीनलौ सत्वरं - शीघ्रं सखीकराभ्यां ये परामृष्टे-स्पृष्टे सत्वरसखीकरपरामृष्टे एवंविधयोः स्फटिकस्य प्रवालस्य च . या पर्यंकिकापदं उभ[य] त्रापि योज्यते, स्फटिकपर्यंकिका प्रवालपर्यंकिका च तयोरुत्सङ्गभागं-मध्यप्रदेशं भेजतुः शिश्रियतुः ।
ततश्च तौ
ततश्च ततः पर्यंकिका ध्यासानन्तरं तौ दमयन्तीनलौ
हर्षाद्वाष्पचिते, भयात्तरलिते, विस्फारिते विस्मयादौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया । रूपालोकनकौतुकेन रभसादन्योन्यवक्त्राम्बुजे, किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ ३८ ॥
हर्षादिति । रभसात्-वेगात् रूपावलोकनस्य यत्कौतुकं तेन अन्योन्यस्य - परस्परस्य यद्वक्त्राम्बुजं तस्मिन् विषये किञ्चित् - मनाक् साचि च - तिर्यक् सम्मुखं च - अभिमुखं नयने-नेत्रे सञ्चारयामासतुः - प्रवर्त्तयामासतुः परस्परं मुखं तौ अद्राष्टामित्यर्थः । किम्भूते नयने ? हर्षात् - आनन्दात् बाष्पचिते - अश्रुभिर्व्याप्ते, तथा भयाद् - अपरिणीतप्रियावलोकनाद्भयं तस्मात् तरलिते - कम्पिते, तथा विस्मयात्- आश्चर्याद् विस्फारिते - विशालीकृते, तथा औत्सुक्यात्-उत्कण्ठायाः स्तिमिते- निश्चले, तथा स्मरात्- कामात् विलुलितेअवाङ्मुखीकृते मृदिते वा, तथा लज्जया संकोचिते - निमीलिते ॥ ३८ ॥
तत्र च व्यतिकरे
अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा, येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः । लज्जामन्थरयोः परस्परमिलद्वष्टिप्रपाते तयोस्ते सर्वे समकालमेव हृदये कोऽप्याविरासत्रसाः ३ ॥ ३९ ॥
तत्र च व्यतिकरे - तस्मिन्नवसरे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org