________________
दमयन्ती - कथा - चम्पूः
अन्तरिति । लज्जया - व्रीडया मन्थरयोः - अलसयोस्तयोः - दमयन्तीनलयोः परस्परंअन्योन्यं मिलन्त्यौ-संयुज्यमाने ये दृष्टी तयोर्यः प्रपातः-अन्योन्यं वीक्षणमित्यर्थस्तस्मिन् अर्थाज्जाते सति, हृदये-उभयोश्चेतसि ते केऽपि - अद्भुताः सर्वे रसाः समकालमेव युगपदेव आविरासत्प्रकटीबभूवुः । तु:- विशेषे, विशेषेण ये रसास्तयोरन्तः - चित्ते एव केवलं परं उल्लसन्ति-उद्भवन्ति न पुनर्वाचां गोचरा:-विषया:, न वाग्भिर्वक्तुं शक्यन्त इत्यर्थ: । "तु विशेषेऽवधारणे समुच्छ्रये पादपूर्ती" [परि० १३-१४] इत्यनेकार्थः । तथा येषां रसानां भरतादयोऽपि कवयो विवेकंयुगपत् तेषामुद्भवात् विवेचनं कर्त्तुं विधातुं न क्षमा:-न शक्ताः ॥ ३९ ॥
अपि च । तत्र व्यतिकरे
५७८
कर्णान्तकृष्टवलयीकृतचापचक्रश्चञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः । लक्षद्वयेऽपि युगपद्विशिखान्विमुञ्च'न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥
अपि च- पुनः तत्र व्यतिकरे-तस्मिन्नवसरे
I
कर्णान्तेति । स्मर:- कामो लक्षद्वयेपि - दमयन्तीनलरूपवेध्ययुग्मेपि युगपत् - समकालं विशिखान्-बाणान् विमुञ्चन् सन् श्रमवान् खिन्नो अभूत् ? - बभूव । किम्भूतः स्मरः ? सन्धाने-बाणज्यासंयोजने सत्वरौ - शीघ्रौ करौ यस्य स सन्धानसत्वरकरो ज्यया सह शीघ्रं बाणं संयोजयन्नित्यर्थः । पुनः किम्भूतः स्मरः ? कर्णान्तं - श्रोत्रपर्यन्तं यावत्कृष्टं - कर्णान्तकृष्टं अतएव वलयीकृतं - मण्डलीकृतं चापचक्रं - धनुर्मण्डलं येन स तथा चञ्चन्- दीप्यमानो यो गुण:- प्रत्यञ्चा तस्य स्खलनेन - पुनः पुनः संघट्टनेन जर्जरितः सव्रणप्रकोष्ठः ३ कलाचिका
यस्य सः ॥ ४० ॥
अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् "अलमल-मुत्पलाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते' इति रे दमयन्तीमभिधाय तस्याः स्वादुदुर्लभसूक्तिसुधासेक 'कोमलालापपण्डिताभिः सखीभिः सह परिमित-परिहासेन, किमपि जल्पयन् ", किमपि हसन्, किमपि हासयन्, मुहूर्त्तमिवासांचक्रे ।
१. तत्र च अनू. । २. अभूत् नास्ति अनू. । ३. सव्रण: अनू. I
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org