Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तम उच्छ्वासः
५७१ अग्निस्तेन यो दाहस्तन्मयीं-तद्विकाररूपां व्रणलेखां हृदयेन-मध्यभागेन उद्वहति-बिभर्ति । अन्योऽपि कराभ्यां अनलं स्पृशन् सन् तद्दाहमयीं व्रणलेखां बिभत्र्येव । विकारे मयट् ।
__ अयमपि समीपोद्यानस्य-निकटवनस्य यो मारुत:-वायुः स अस्याः-दमयन्त्याः समर्पितः-दत्तः कुसुमानां गन्धः-सुरभिपरिमलो येन एवंविधः सन्, शनैरुत्तरांशुकं-उपरिवास आक्षिपन्-अपनयन्, मदनेन आतुरः-पीडितस्तिर्यक् पतति । अन्योऽपि स्मरातुरः कुसुमगन्धकस्तूरिकादि चार्पयन् संव्यानाकर्षणपरस्तिर्यक् पतति ।
सर्वथा-सर्वप्रकारेण मनुष्यलोकेन जितं, यत्र मनुष्यलोके अचिन्त्यं-चिन्तयितुशक्यं, तथा न आलोचनस्य-विचारणस्य गोचरो विषयो यत्तत्, तथा अप्रतिरूपं-असदृशं, तथा अद्भुतं-आश्चर्यरूपं, तथा अमूल्यं-अनर्घ्यं स्त्रीरत्नं उदपद्यत-जातम् ।
आ इति सन्तापे, प्राप्स्यते न वा इति सन्देहात् सन्तापः, "आः सन्तापप्रकोपयोः" [अने० परि० १३] इति वचनात् । हे प्रजापते !-विधे ! त्वं परिणतं-परिपक्वं शिल्पं-विज्ञानं यस्य स एवं विधोऽसि-एवंविध भैमीनिर्माणात् । तथा हे संसार ! त्वं सनाथोऽसिसप्रभुरसि । तथा हे मदन ! त्वं महोत्सववानसि-महामहं प्राप्तवानसि । तथा हे चक्षुः !-नेत्र ! त्वं कृतार्थं-कृतकृत्यं सफलं असि । तथा हे हृदय !-चेतः ! त्वं पूर्णा मनोरथा यस्य तत्तथाविधं असि । तथा दूरागमनाद् यः श्रमो दूरागमनश्रमस्तस्य सम्बोधने हे दूरागमनश्रम ! त्वं सफलोऽसि-फलवान् वर्त्तसे, यत एवंविधा भैमी मया आलोकितेति ।
तथ सकलयुवजनानां यानि मनांसि तान्येव मधुकरास्तेषां आकृष्टौ-आकर्षणे कुसुमितलतिकेव-पुष्पितव्रततिरिव या सा । यथा कुसुमितलतया भृङ्गा आकृष्यन्ते तथा त्वया युवजनमनांसीति तस्याः सम्बुद्धौ हे सकलयुवजनमनोमधुकराकृष्टि कुसुमितलतिके ! तथा निजनयनाभ्यां निर्जितं राजीवं यया सा तस्याः सम्बोधने हे निजनयननिर्जितराजीवे ! हे दमयन्ति ! त्वं चिरं जीव ।
तथाहितथाहीति । तस्या नयनवर्णनामेवाह
लक्ष्मी बिभ्राणयोः कांचिच्चञ्चभ्रूभङ्गभागयोः ।
बलि यामो वयं तन्वि ! तवान्यसदृशोद्देशोः ॥ ३४ ॥ लक्ष्मीमिति । हे तन्वि !-दमयन्ति ! तव दृशोः-नेत्रयोर्वयं बलिं याम:-उपहारी भवामः, इति परमप्रीतिगर्भा लोकोक्तिः । किम्भूतयोद्देशोः ? अब्जसदृशो:-पद्मसमानयोः । १. ०मधुकाराकृष्ट० अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776