________________
दमयन्ती - कथा - चम्पूः
गीतगोष्ठीस्थितसखीगतझंकारेणाहूयमान इव यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् ।
प्रविश्य च - कन्यात: पुरे प्रवेशं विधाय यत्र सौधे दमयन्ती आस्ते तं सौधपृष्ठं आरूढवान्-आरुरोह | किम्भूतो नलः ? उत्प्रेक्ष्यते, दूरात्- विप्रकृष्टदेशात् अभिमुखागतेनसम्मुखप्राप्तेन, तथा अनवरतं - अजस्त्रं दह्यमानः - भस्मीक्रियमाणो यः कृष्णागुरुः-कालागुरुः स एव धूप:-गन्धद्रव्यं तस्य यो धूमः स एव वर्त्तिः - दशा तदाकृतित्वात्तस्य तस्या नर्त्तकेनकम्पकेन, वातेन हि धूमश्चाल्यत इति । तथा कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः बहलंनिविडं यद् यक्षकर्दमाम्बु तेन सिक्तः - उक्षितो यः सौधस्कन्धयोः सन्धिः-श्लेषस्तस्मिन् विचरितुं - विहर्तुं शीलं यस्यासौ तथाविधेन गन्धवाहेन वायुना कृतं अभ्युत्थानं - अभिमुखं उत्थानं यस्मै, एवंविध इव । यदा हि अतिथिरागच्छेत् तदा तस्याभिमुखं उत्थानं क्रियते तथा अनेन वातेनैवाभिमुखमागतेन अभ्युत्थानं नलस्य कृतमिति । तथा स्तोकं - अल्पं अन्तरंअवकाशं परिक्रम्य-उल्लंघ्य इत इतः - अस्मिन् अस्मिन् प्रदेशे देवी - भैमी वर्तत इति गीतगोष्ठ्यां-गानसभायां स्थिता याः सख्यः - वयस्यास्तासां गीतझङ्कारेण आहूयमान इवआकार्यमाण इव । नलेन गीतझङ्कारेण अज्ञायि यथाऽत्र भैमी वर्तत इति । तत्रोत्प्रेक्ष्यते, तत् झङ्कारेण इत इतो देवी वर्तत इति आकार्यत इवेति ।
५६६
आरुह्य च मनाग्व्यवहितोऽनुपलक्ष्यमाण एव', वेणुवीणाक्वणानुसारिणा कोमलकाकलीप्रायेण किंनरीपुरुषस्य संगीतेन विनोद्यमानाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेन कज्जलकलङ्कितनयनोत्पलपक्ष्मपालिना मुखेन गगनचन्द्रस्पर्धया भूतलमपि पूर्णोदितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्तर्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता ६ कृतश्चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन " कुमुदमञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिकापङ्कपत्रभङ्गैर्भुजङ्गैरिव लावण्यामृतरक्षागतैरलंकृत- भव्यभुजशिखराम्, आसन्न भुवि विकीर्णै: पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूहलिभिर्नक्षत्रैरिव परिवृताम्, गुरु' नितम्बमण्डलस्पर्शसुखलम्पटतया
१. उत्प्रेक्ष्यते नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org