Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तम उच्छासः
५६१ शबरिका निशाशबरिका तया वासरस्य-दिनस्य यो विरामः-विरमणं निवृत्तिं स एव वल्ली तां उल्लूय-छित्त्वा उद्धृतः-उत्क्षिप्तः कन्द इव तस्यापि वृत्तत्वात् धवलत्वाच्च । तथा सिद्धवधूभिः सिद्धा:-देवविशेषास्तेषां वधूभिः-स्त्रीभि: उदयाचलचतुष्पथे विरचितःविहितः पाण्डूनां पुष्पाक्षतानां गुञ्जानां चयः-पुञ्ज उत्करः स इव । पाण्डुगुञ्जा हि मंगलाय स्युः । उदयाचलशब्दश्रुतेश्चन्द्रसमागमनसूचा । तथा कैलासशिखरात्-रजताद्रिशृङ्गात् लुठित्वा-परिवृत्त्य आगतो गण्डशैल इव-गिरेश्च्युतः स्थूलोपल इव । तथा पूर्वदिङ्मुखस्य सीमन्तमौक्तिकं इव-केशान्तरालवर्तिमुक्तेव । तथा पूर्वाशाधियते:-पुरन्दरस्य सितातपत्रमिवश्वेतच्छत्रमिव । तथा काल एव-अनेहा एव कुमारस्तस्य क्रीडायै मौक्तिकानां कन्दुक इवगेन्दुक इव ।
तदनु चतदनु च-उदयानन्तरम्
मदनयति युवानं यौवराज्येऽभिषिञ्चन्कृतकुमुदविकासो २भासयन्दिङ्मुखानि । अयममृततरङ्गैः प्लावयञ्जीवलोकं,
गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ २७ ॥ मदनयतीति । अयं मृगाङ्क:-शशाङ्कः गगनं-व्योम मन्द-मन्दं-शनैः-शनैअवजगाहे-आक्रामति स्म । कथं ? युवानं-तरुणं यौवराज्ये-युवराजभावे अभिषिञ्चन्अभिषिक्तं कुर्वन् मदनयति-मदनवन्तं करोति । मदनयतीति "तत्करोति" [पा०सू० गणपाठ] इति णिच् “विन्मतोलुंग्" [पा०सू० ५।३।६५] इति मतुप् प्रत्ययस्य लुक् । तथा कृतः कुमुदानां विकासो येन एवंविध सन् दिङ्मुखानि भासयन्-उद्दीपयन् । तथा अमृतमयाः-सुधास्वरूपा ये तरङ्गाः-वीचयस्तैः कृत्वा जीवलोकं प्लावयन्-आपूरयन् । मयट तद्प इति केचित् । यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः । मालिनी ।। २७ ।।
तदनन्तरम् , आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्त भूभागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सान्द्र४सुधापङ्कपिण्डै:५, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्टया, प्रविष्टमिव
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776