Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 704
________________ सप्तम उच्छ्वासः उल्ललास च चण्ड 'तरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिञ्जल्करेणुराजिरिव कपिशा शशाङ्कद्युतिः । राजा तु-नलः तत्पूर्वोक्तं आकर्णयन् सन् सौधशिखरतलात् लीलया - विलासेन यो पदप्रचार:- चरणरचना तेन अवतीर्य सरित्सङ्गमे नदीसम्भेदे सन्ध्यायाः यत् आह्निकं-नित्यक्रिया तत् अकरोत् । किम्भूते सरित्सङ्गमे ? सन्ध्याविरामे - सन्ध्यावसाने उपविष्टा:- निषण्णाः जपन्तःमन्त्रजपं कुर्वंतो ये द्विजजनास्तै: सनाथं सहितं सैकतं - पुलिनं यस्य स तस्मिन् । - 1 ततश्च सन्ध्याह्निककरणानन्तरं पश्चिमायां दिसि सन्ध्यारागे - सायन्तनरक्ततायां स्फुरितेप्रोद्दीप्ते सति, तिमिरपटलपंक्तिः-तमोवृन्दराजिर्व्यजृम्भत - विललास । तिमिरपटल - पंक्ति: केव ? उत्प्रेक्ष्यते, रुधिरमेव आसव:- शीधुस्तस्य या पिपासा - पानेच्छा तया प्रधावमाना - शीघ्रं गच्छन्ती कालवेतालानां-कृष्णरजनिचरविशेषाणां मण्डलीव-पंक्तिरिव । शंके, इयं तिमिरपंक्तिर्न, किन्तु पश्चिमायां रुधिरं पातुमियं कालवेतालपंक्ति: प्रधावतीति “चात्वालकंकालहिंतालवेतालजम्बालशब्दालसमाप्तालादय:" [ ] इति आलप्रत्यये वेताल इति निपात्यते । तथा पुनरुत्प्रेक्ष्यते, त्रिभिः स्रोतोभिः प्रवृत्तया - प्रौढया गङ्गया सह संहर्षादिवस्पर्द्धयेव अनेकस्रोतसां- अनेकप्रवाहाणां सहस्त्रैर्गगनतलमिव आप्लावयन्ती - आपूरयन्ती कालिन्दीव-यमुनेव । गङ्गायाः किल त्रीण्येव स्रोतांसि, अहं पुनरनेकानि स्रोतांसि विधास्यामीति, संहर्षेण शङ्के, यमुनाविहितैरनेकैः स्रोतोभिर्गगनमा- पूरयति, तत्स्रोतसां नीलत्वात् । अनन्तरं च-तिमिरपटलभवनात् पश्चात् चन्द्रमसा - शशिना कृत्वा गर्भिणी-गुर्विणी पौरन्दरी-एन्द्री दिक् केतकीकुसुमपत्रवत् पाण्डिमानं - पाण्डुतामगमत् प्राप । गर्भिणी हि स्त्री केतकपत्रवत् पाण्डुतां बिभर्ति तथेयमपि । ५५९ च-पुनः कपिशा - पिङ्गलवर्णा शशाङ्कद्युतिः - चन्द्रदीप्तिरुल्ललास - प्रादुर्बभूव । शशाङ्कद्युतिः केव ? उत्प्रेक्ष्यते, चण्डतर:- अत्युग्रो यो मारुतः - वायुस्तेन अन्दोलिताःकम्पिता ये उदयाद्रिद्रुमाः- उदयाचलतरवस्तेषां यानि कुसुमानि तेषां किञ्जल्करेणुराजिरिवकेसररज: पुञ्ज इव, तस्या अपि कपिशवर्णत्वात् । १. तत्स्रोतसामपि अनू. । अथ क्रमेण पूर्वपुलिनाद्राजहंस इव गगनमन्दाकिनीमुच्चलितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपतिशंकया 'पृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकरकेतोः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776