SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छासः ५६१ शबरिका निशाशबरिका तया वासरस्य-दिनस्य यो विरामः-विरमणं निवृत्तिं स एव वल्ली तां उल्लूय-छित्त्वा उद्धृतः-उत्क्षिप्तः कन्द इव तस्यापि वृत्तत्वात् धवलत्वाच्च । तथा सिद्धवधूभिः सिद्धा:-देवविशेषास्तेषां वधूभिः-स्त्रीभि: उदयाचलचतुष्पथे विरचितःविहितः पाण्डूनां पुष्पाक्षतानां गुञ्जानां चयः-पुञ्ज उत्करः स इव । पाण्डुगुञ्जा हि मंगलाय स्युः । उदयाचलशब्दश्रुतेश्चन्द्रसमागमनसूचा । तथा कैलासशिखरात्-रजताद्रिशृङ्गात् लुठित्वा-परिवृत्त्य आगतो गण्डशैल इव-गिरेश्च्युतः स्थूलोपल इव । तथा पूर्वदिङ्मुखस्य सीमन्तमौक्तिकं इव-केशान्तरालवर्तिमुक्तेव । तथा पूर्वाशाधियते:-पुरन्दरस्य सितातपत्रमिवश्वेतच्छत्रमिव । तथा काल एव-अनेहा एव कुमारस्तस्य क्रीडायै मौक्तिकानां कन्दुक इवगेन्दुक इव । तदनु चतदनु च-उदयानन्तरम् मदनयति युवानं यौवराज्येऽभिषिञ्चन्कृतकुमुदविकासो २भासयन्दिङ्मुखानि । अयममृततरङ्गैः प्लावयञ्जीवलोकं, गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ २७ ॥ मदनयतीति । अयं मृगाङ्क:-शशाङ्कः गगनं-व्योम मन्द-मन्दं-शनैः-शनैअवजगाहे-आक्रामति स्म । कथं ? युवानं-तरुणं यौवराज्ये-युवराजभावे अभिषिञ्चन्अभिषिक्तं कुर्वन् मदनयति-मदनवन्तं करोति । मदनयतीति "तत्करोति" [पा०सू० गणपाठ] इति णिच् “विन्मतोलुंग्" [पा०सू० ५।३।६५] इति मतुप् प्रत्ययस्य लुक् । तथा कृतः कुमुदानां विकासो येन एवंविध सन् दिङ्मुखानि भासयन्-उद्दीपयन् । तथा अमृतमयाः-सुधास्वरूपा ये तरङ्गाः-वीचयस्तैः कृत्वा जीवलोकं प्लावयन्-आपूरयन् । मयट तद्प इति केचित् । यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः । मालिनी ।। २७ ।। तदनन्तरम् , आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्त भूभागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सान्द्र४सुधापङ्कपिण्डै:५, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्टया, प्रविष्टमिव For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy