SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ५६२ दमयन्ती-कथा-चम्पू: स्फाटिक -मणिमहामन्दिरोदरदरीम्”, उत्प्लवमानमिव द्रवीभूततुहिनाचलमहाप्लवेन', भुवनमासीत् । तदनन्तरं-शशिना नभ आक्रमणानन्तरं भुवनं-जगत् एवंविधं आसीत् । किम्भूतं ? उत्प्रेक्ष्यते, मुक्ता मर्यादा-अवधिर्येन एवंविधेन दुग्धवार्द्धिना-क्षीरसागरेण आप्लावितमिवआपूरितमिव । यावदब्धिः स्वमर्यादायां स्थितो भवति तावद् भुवनस्याप्लावनं न भवेत् अतो मुक्तमर्यादेनेत्युक्तम् । तथा अमन्दा-अनल्पा याश्चन्दनाम्बुनः- श्रीखण्डद्रवस्य छटास्ताभिः सिक्तं-उक्षितं भूभागाङ्गणं यस्य तत् एवंविधमिव, चन्दनाम्बुच्छटानामपि श्वेतत्वात् । तथा सान्द्राः-निविडा ये सुधापङ्कस्य पिण्डाः-गोलास्तैर्विलिप्ता-दिग्धा दिग्भित्तयो यस्य तत् तथाविधमिव । तथा उत्सर्पिणी-प्रसरणशीला कर्पूरपासूनां या वृष्टिस्तया आपूरितमिव-व्याप्तमिव । तथा स्फाटिकमणीनां यन्महामन्दिरं-विशालगृहं तस्य या उदरदरी-गर्भकन्दरस्तां प्रविष्टमिव । परितः-सर्वतोऽपि श्वेततायाः प्रसृतत्वात् । मन्ये, स्फाटिकमणिगृहगर्भविवरे इदं प्रविष्टमिति । तथा द्रवीभूतः-गलितो यस्तुहिनाचल:हिमालयस्तस्य महाप्लवेन-महापूरेण उत्प्लवमानमिव-प्रवहमानमिव । ततश्चततश्च-चन्द्रप्रकाशप्रौढिमानन्तरम् कैलासायितमद्रिभिविटपिभिः श्वेतातपत्रायितं, मृत्पङ्केन१० दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः, श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ २८ ॥ कैलेति । शशाङ्कोदये जाते सति अद्रिभिः-पर्वतैः कैलासेनेव-रजताद्रिणेव आचरितं कैलासायितं, तथा विटपिभिः-वृक्षः श्वेतातपत्रैरिव आचरितं श्वेतातपत्रायितं, तथा मृत्यूकेन दधिनेव आचरितं दधीयितं, तथा जलनिधौ वारिभिः-जलैः दुग्धनेवाचरितुं दुग्धायितं, तथा व्रततिभिः-वीरुद्भिः मुक्ताहारलतयेव आचरितं मुक्ताहारलतायितं, तथा श्रीफलैः-बिल्वैः शंखेनेवाचरितं शंखायितं । तथा जनपदैर्देशैः 'तात्स्थ्तात् तद्व्यपदेशः' [ ] इति न्यायात् जनपदवासिलोकैः श्वेतद्वीपस्य ये जनास्तैरिव आचरितं श्वेतद्वीपजनायितं । श्वेतद्वीपवासिनो हि जनाः श्वेता भवन्ति तथा शशाङ्ककान्त्या सर्वेपि जना धवलीभूता वीक्ष्यन्ते, अत किमु श्वेतद्वीपवासिनो अमी इति ॥ २८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy