SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः अपि च सर्वेऽपि पक्षिणो हंसाः सर्वेऽप्यैरावता गजा: । जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः ॥ २९ ॥ अपि च- पुनश्चन्द्रोदये यज्जातं तदाह सर्वे इति । चन्द्रांशुभि:- शशिकान्तिभिः सर्वेऽपि पक्षिणो-हंसा जाता:, तथा सर्वेऽपि गजा: - ऐरावता जाता:, तथा सर्वेऽपि शिलोच्चयाः - गिरयो रौप्यपुञ्जा:- कलधौतराशयो जाताः ॥ २९ ॥ सुधापङ्कोपलिप्तेव बद्धेव स्फाटिकोपलैः १ । विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता ॥ ३० ॥ सुधेति । ज्योत्स्नया - चन्द्रातपेन मेदिनी एवंविधा कृता । किम्भूता ? उत्प्रेक्ष्यते, सुधापङ्केन उपलिप्ता इव-दिग्धेव, तता स्फाटिकोपलैः- स्फाटिकमणिभिर्बद्धेव-खचितेव, तथा विलीनं-द्रवीभूतं यद्धिमं तेन दिग्धेव - लिप्तेव । श्वेतत्वावलोकनादिमा उत्प्रेक्षाः ||३०|| अपि च Jain Education International ५६३ सौधस्कन्धतलानि दीपपटलैः कम्पेन पाण्डुध्वजाः हंसा: पक्षविधूननेन मृदुना निद्रान्तनादेन च । लक्ष्यन्ते कुमुदानि षट्पदरुतैरुत्सर्पिगन्धेन च क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ ३१ ॥ अपि च- पुनः सौधेति । क्षुभ्यन्-क्षोभं प्राप्नुवन् यः क्षीरपयोधि :- क्षीराब्धिस्तस्य यः पूर:प्रवाहस्तत्सदृशे शशाङ्कोदये जाते सति, सौधस्कन्धानां - नृपमन्दिरोपरिभागानां यानि तलानिअधोभागास्तानि दीपपटलैः- प्रदीपवृन्दैर्लक्ष्यन्ते- ज्ञायन्ते, अन्यथा सर्वस्यापि धवलत्वात् कथमेतान्येव सौधस्कन्धतलानीति, परं दीपैस्तानि ज्ञायन्ते । तलशब्दः पुन्नपुंसकः । तथा पाण्डुध्वजा:-धवलाः पताकाः कम्पेन २ - वातप्रेरणेन लक्ष्यन्ते । तथा हंसाः पक्षयोर्विधूननेन रे - चालनेन, वा- अथवा मृदुना - श्रोत्रानुकूलेन निद्रान्ते - तन्द्राया अवसाने यो नादःकूजितं तेन लक्ष्यन्ते । तथा कुमुदानि - श्वेतकमलानि षट्पदानां भृङ्गाणां यानि रुतानि - झङ्कारास्तैः, च-पुन: उत्सर्पो - प्रसरणशीलो यो गन्ध: - आमोदस्तेन लक्ष्यन्ते, अन्यथा १. अपि नास्ति अनू. । २. पंकेन अनू. । ३. विधूनेन अनू. । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy