________________
५६४
दमयन्ती-कथा-चम्पू: कोकनदादीनामपि तदानीं धवलत्वात् कथं ज्ञायेरन्१ ? एतान्येव कुमुदानीति परं भृङ्गझङ्कारैरुत्सर्पिगन्धेन च तेषामवगमः । अन्यानि च पद्मानि श्वेतत्वे समानेऽपि रविविकासित्वाद् रात्रौ सभृङ्गझङ्काराणि उद्गन्धीनि च न भवन्तीति । ॥ ३१ ॥
तथाविधे चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधनाथश्चिन्तयांचकार ।
तथाविधे भ्रान्तिजनके चन्द्रोदयस्य प्रपञ्चे-विस्तारे जाते सति हठात्-प्रसभात् उत्कण्ठया-रणरणकेन अभिभूयमानः-पीड्यमानो निषधनाथः- नलश्चिन्तयाञ्चकारविचारयति स्म । किं तत् ? इत्याह
इतश्चन्द्रः सान्द्रान्किरति किरणानग्निपरुषान्, इतोऽपि प्रोन्मीलत्कुमुदवनवायुर्विलसति । इतः कादम्बानां ध्वनितमपि निद्रालसदृशा
मसाः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ ३२ ॥ इत इति । अयं प्रत्यक्षः सर्वो मनसिजस्य-कामस्य यो महिमा-अनुभावस्तस्य परिकर:परिवारस्तत्साहाय्यदानात् असह्यः-सोढुमशक्यः । कः परिकरः ? इत्याह-इत:-अस्मिन् प्रदेशे चन्द्रः सान्द्रान्-घनान् अग्निवत्परुषान्-कठोरस्पर्शान् किरणान् किरति-विक्षिपति । इतोपि प्रोन्मीलन्ति-विकसन्ति यानि कुमुदवनानि तेषां वायुर्विलसति-वाति । इतोऽपि कादम्बानांकलहंसानां ध्वनितं-शब्दितं । किम्भूतानाम् ? निद्रया अलसा दृक् येषां ते तथा तेषाम् ।। ३२ ।।
इतो मकरकेतनः किरति दुर्निवारः शरानितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया । तदेतदतिसङ्कटं यदिह कैश्चिदुक्तं जनै
१रितो विषमदुस्तटी भयमितो महाव्याघ्रतः ॥ ३३ ॥ इत इति । इत:-अस्मिन् विभागे दुर्निवार:-वारयितुमशक्यो मकरकेतन:-काम: शरान् किरति-विक्षिपति । इलोऽपि वयं कुलिशपाणिः-इन्द्रस्तेन दत्ता या आज्ञा-यथा मदर्थं दमयन्ती वरणीयेति आदेशस्तया आकुला:-व्यग्राः परवशाः इत्यर्थः । तत्-तस्मादेतत् कामातुरत्वं तदाज्ञावर्तित्वं च युगपत् अतिसंकटं अतिसम्बाधः । यद्यस्मात् इह-उभयतः १. ज्ञायेत अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org