SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ५६० दमयन्ती-कथा-चम्पूः के नापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय महेन्द्रदिशा हस्ताश्लेषो-२पलालितः, शालिका पुष्पस्तबक इव गगनश्रिया श्रवणे संयोजितः, कुम्भ इवैकः प्राचीन वनविहारिसुरकरीन्द्रस्य प्रकटतां गतः६, वासर-विरावल्लीमुल्लूय कन्द इवोद्धृतो निशाशबरिकया, पाण्डुपुष्पाक्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलचतुष्पथे विरचितः, गण्डशैल इव कैलास-शिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदिङ मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरन्दरस्य, क्रीडामौक्तिकन्दुक इव कालकुमारस्य क्षीर-डिण्डीरपिण्डसदृशो दृष्टिपथमवततार तारापतिः । अथ शशाङ्ककान्तेः प्रसरणानन्तरं क्रमेण-कियता कालेन क्षीरस्य ‘पदैकदेशे पदसमुदायोपचारात्' क्षीराब्धेर्यो डिण्डीरपिण्ड:-फेनपिण्डस्तत्सदृशस्तारापति:-चन्द्रो दृष्टिपथं अवततार-अदर्शीत्यर्थः । उत्प्रेक्ष्यते, पूर्वपुलिनात्-पूर्वसमुद्रसैकतात् गगनमन्दाकिनी नभोगङ्गां प्रति उच्चलित:-प्रवृत्तो राजहंस इव । शङ्के, असौ शशी न किन्त्वयं राजहंस एव व्योमगङ्गायां गन्तुं प्रवृत्त इति । पुनरुत्प्रेक्ष्यते, उदयगिरिगुहागह्वरात्-उद्याद्गिह्वरकुञ्जात् तिमिरमेव करियूथपति:-गजेन्द्रस्तस्य शंकया-भ्रमेण पृष्ठलग्न:-पश्चाद्धन्तुं प्रवृत्त: केसरिण:सिंहस्य किशोर इव-अर्भक इव, तमसो गजभ्रान्तिजनकत्वात्, तमसि गज इति बुद्ध्या हन्तुं पृष्ठलग्नः, शङ्के, सिंहशिशुरयमिति । गह्वरशब्दोऽत्र कुञ्जार्थः । यदनेकार्थः-"गह्वरो बिलदम्भयोः कुञ्जेषु?" [३५८४]। पुनरुत्प्रेक्ष्यते, जगतां यो विजयो जगद्विजयस्तस्मै यत् प्रस्थानं-प्रवर्तनं तस्मिन् स्थितस्य जगद्वशीकरणप्रवृत्तस्येत्यर्थ, मकरकेतो:-कामस्य मङ्गलाय-मङ्गलार्थं केनापि सज्जीकृतः-प्रगुणीकृतो निर्मित इत्यर्थः, स्फटिकमयःस्फटिकविकारः पूर्णकुम्भ इव । अन्योऽपि राजा जगद्विजयार्थं यदा प्रवर्तते तदा तस्य मङ्गलार्थं पूर्णकलस: सम्मुखं केनचित् सज्जीक्रियत एव । विकारे मयट, विकारस्तु स्फटिकस्य कलसत्वेन करणात् । तथा महेन्द्रदिशा प्राच्या मण्डनाय-अङ्गविलेपनाय हस्ताश्लेषेण-करपरामर्शनेन उपलालितः-संस्कृतो वर्तुलीकृतः श्रीखण्डपिण्ड इव-चन्दनगोल इव । “पिण्डो वृन्दे जपापुष्पे गोले बोलेङ्गसिल्हयोः । कवले [२।१२४-१२५] इत्यनेकार्थः । तथा गगनश्रिया-नभोलक्ष्म्या श्रवणे-कणे संयोजित:-न्यस्तः शांखिकाया लताविशेषस्य पुष्पस्तबक इव-कुसुमगुच्छ इव । तथा प्राचीनं-प्राच्यां भवं यद्वनं तस्मिन् विहर्तुं शीलं यस्यासौ प्राचीनवनविहारी एवंविधो यः सुरकरीन्द्रः-ऐरावणस्तस्य प्रकटतांप्रकाशतां दृश्यतां गतः-प्राप्तः एकः कुम्भ इव । यद्यपि कुम्भयोद्वित्वं भवति तथापि वनगहने विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो लक्ष्यते अत एक इत्युक्तम् । तथा निशैव १. कुञ्ज अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy