Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 682
________________ सप्तम उच्छ्वासः ५३७ मायूरातपत्रमण्डलं यस्य सः । तथा सलीलं-सविलासं यथा भवति तथा अलसपादैःमन्थरचरणन्यासैरितस्ततः परिक्रामन्-विचरन् । तथा एवंविधासु दन्तिपंक्तिसु-करिराजिषु दत्ता-न्यस्ता दृष्टिर्येन सः । किम्भूतासु दन्तिपंक्तिसु ? नेदीयसि-निकटतरं सरित्सङ्गमस्य यदम्भस्तस्मिन् सरित्सङ्गमाम्भसि-नदीसम्भेदोदके अखिलं-समस्तं मध्याह्न अवगाहनसुखंमज्जनसुखं अनुभूय तीरमुत्तीर्णासु-तटं प्राप्तासु । तथा करिणां कृष्णत्वात् तिमिरशङ्कयातमोभ्रान्त्या कृतं दूरे चङ क्रमणं-गमनं यैस्तानि एवंविधैश्चक्रवाकाणां-चक्राणां यानि चक्रवालानि-वृन्दानि तैराकुलं-सत्रासं यथा भवति तथा आलोक्यमानासु, दन्तिपंक्तीरवेक्षमाणाश्चक्रा आकुला जायन्त इत्यर्थः । तथा पुलिनपांशूनां-सैकतरजसां यद् विकिरणंइतस्ततो विक्षेपणं तस्य विरामे-अवसाने धूलीस्नानानन्तरं विकसिता विविधा-अनेकविधा वीरुधो येषु, एवंविधानि रोधांसि-तटानि रदन्तीषु-पाटयन्तीषु । तथा विकचकमलवनेसविकासपद्मखण्डे चरतः-विहरतो राजहंसकुलस्य-सितपक्षकुटुम्बकस्य यः कलापःसमूहस्तस्य करिकलभदण्डवत् पाण्डुरं-धवलं यद् विसकाण्डं-कमलनालवृन्दं तस्य यो भङ्गः-त्रोटनं तस्य टङ्कारान्-रवविशेषान् आकर्णयन्-शृण्वन् । “काण्डं नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे" [२।११२-११३ ] इत्यनेकार्थः । किम्भूते विकचकमलवने ? चटुला:-चञ्चलाश्चञ्चरीका:-भृङ्गाः विद्यन्ते यस्मिस्तत्तथा तस्मिन् । किम्भूतस्य राजहंसकुलकलापस्य ? विरलानि-अनिविडानि यानि नलिनीपत्राणि-पद्मिनीदलानि तेषामन्तरालेषु-मध्येषु सुप्तोत्थितस्य पूर्वं सुप्तः पश्चादुत्थितः-जागरित सुप्तोत्थितस्तस्य । तथा किञ्चित्-ईषत् अवाञ्चिता-नीचैः कृता चटुला चञ्चुर्येन स तस्य । तथा अपराह्नमज्जनायसायन्तनस्नानाय आगताभिः कुण्डिनपुर-पुरन्ध्रिभिः-कुण्डिनपुर-स्त्रीभिर्ने त्रपुटैः आपीयमाना-अतिशयेन दृश्यमाना मुखेन्दुद्युतिः-आननशशिश्रीर्यस्य सः । सादरेक्षणं नेत्रपानं तच्च पत्रपुटैर्युक्तं, अतो नेत्रपुटेरापीयमानेत्युक्तं । किम्भूतैः नेत्रपुटैः ? आश्चर्यरसोर्मिभिःअद्भुतरसबाहुल्ये न मुषिता-अपहृता निमेषा:-अक्षिमीलनानि येषां ते तै: विस्फारितै रित्यर्थः। अतएव पुनः किम्भूतैः ? निकम्पाणि-निश्चलानि यानि नीलोत्पलपलाशानि-कुवलयपत्राणि तद्वदलीलावन्तो लीलावन्तो भवन्तो लीलायमानाःशोभायमानास्तै निश्चलकुवलयपत्रोपमैरित्यर्थः । तथा सरित्सङ्गमसलिलस्य अधिष्ठात्र्य-देवतयाऽपि विलोक्यमानावीक्ष्यमाणा रूपसम्पत्तिः-सौन्दर्यसम्पत् यस्य स एवंविध इव । किम्भूतया सलिलाधिदेवतया ? दर्शितास्तरङ्गा एव भ्रूभङ्गाः-भ्रूविलासा यया सा तया दर्शिततरङ्गभ्रूभङ्गया । तथा दूरे उच्छलन्त्यः-उल्ललन्त्यो यो बालशफर्य्यस्तासां छलेन-दम्भेन विस्फारिते-विकस्वरीकृते विलोचने यया सा तया । मन्ये, उद्वतितशफरीच्छलेन जलदेवता नलरूपसम्पदं वीक्षत इति। अन्यापि नायिका सभ्रूभङ्गया विस्फारितदृशा इष्टरूपसम्पदं इवेति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776