________________
सप्तम उच्छ्वासः
५३७
मायूरातपत्रमण्डलं यस्य सः । तथा सलीलं-सविलासं यथा भवति तथा अलसपादैःमन्थरचरणन्यासैरितस्ततः परिक्रामन्-विचरन् । तथा एवंविधासु दन्तिपंक्तिसु-करिराजिषु दत्ता-न्यस्ता दृष्टिर्येन सः । किम्भूतासु दन्तिपंक्तिसु ? नेदीयसि-निकटतरं सरित्सङ्गमस्य यदम्भस्तस्मिन् सरित्सङ्गमाम्भसि-नदीसम्भेदोदके अखिलं-समस्तं मध्याह्न अवगाहनसुखंमज्जनसुखं अनुभूय तीरमुत्तीर्णासु-तटं प्राप्तासु । तथा करिणां कृष्णत्वात् तिमिरशङ्कयातमोभ्रान्त्या कृतं दूरे चङ क्रमणं-गमनं यैस्तानि एवंविधैश्चक्रवाकाणां-चक्राणां यानि चक्रवालानि-वृन्दानि तैराकुलं-सत्रासं यथा भवति तथा आलोक्यमानासु, दन्तिपंक्तीरवेक्षमाणाश्चक्रा आकुला जायन्त इत्यर्थः । तथा पुलिनपांशूनां-सैकतरजसां यद् विकिरणंइतस्ततो विक्षेपणं तस्य विरामे-अवसाने धूलीस्नानानन्तरं विकसिता विविधा-अनेकविधा वीरुधो येषु, एवंविधानि रोधांसि-तटानि रदन्तीषु-पाटयन्तीषु । तथा विकचकमलवनेसविकासपद्मखण्डे चरतः-विहरतो राजहंसकुलस्य-सितपक्षकुटुम्बकस्य यः कलापःसमूहस्तस्य करिकलभदण्डवत् पाण्डुरं-धवलं यद् विसकाण्डं-कमलनालवृन्दं तस्य यो भङ्गः-त्रोटनं तस्य टङ्कारान्-रवविशेषान् आकर्णयन्-शृण्वन् । “काण्डं नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे" [२।११२-११३ ] इत्यनेकार्थः । किम्भूते विकचकमलवने ? चटुला:-चञ्चलाश्चञ्चरीका:-भृङ्गाः विद्यन्ते यस्मिस्तत्तथा तस्मिन् । किम्भूतस्य राजहंसकुलकलापस्य ? विरलानि-अनिविडानि यानि नलिनीपत्राणि-पद्मिनीदलानि तेषामन्तरालेषु-मध्येषु सुप्तोत्थितस्य पूर्वं सुप्तः पश्चादुत्थितः-जागरित सुप्तोत्थितस्तस्य । तथा किञ्चित्-ईषत् अवाञ्चिता-नीचैः कृता चटुला चञ्चुर्येन स तस्य । तथा अपराह्नमज्जनायसायन्तनस्नानाय आगताभिः कुण्डिनपुर-पुरन्ध्रिभिः-कुण्डिनपुर-स्त्रीभिर्ने त्रपुटैः आपीयमाना-अतिशयेन दृश्यमाना मुखेन्दुद्युतिः-आननशशिश्रीर्यस्य सः । सादरेक्षणं नेत्रपानं तच्च पत्रपुटैर्युक्तं, अतो नेत्रपुटेरापीयमानेत्युक्तं । किम्भूतैः नेत्रपुटैः ? आश्चर्यरसोर्मिभिःअद्भुतरसबाहुल्ये न मुषिता-अपहृता निमेषा:-अक्षिमीलनानि येषां ते तै: विस्फारितै रित्यर्थः। अतएव पुनः किम्भूतैः ? निकम्पाणि-निश्चलानि यानि नीलोत्पलपलाशानि-कुवलयपत्राणि तद्वदलीलावन्तो लीलावन्तो भवन्तो लीलायमानाःशोभायमानास्तै निश्चलकुवलयपत्रोपमैरित्यर्थः । तथा सरित्सङ्गमसलिलस्य अधिष्ठात्र्य-देवतयाऽपि विलोक्यमानावीक्ष्यमाणा रूपसम्पत्तिः-सौन्दर्यसम्पत् यस्य स एवंविध इव । किम्भूतया सलिलाधिदेवतया ? दर्शितास्तरङ्गा एव भ्रूभङ्गाः-भ्रूविलासा यया सा तया दर्शिततरङ्गभ्रूभङ्गया । तथा दूरे उच्छलन्त्यः-उल्ललन्त्यो यो बालशफर्य्यस्तासां छलेन-दम्भेन विस्फारिते-विकस्वरीकृते विलोचने यया सा तया । मन्ये, उद्वतितशफरीच्छलेन जलदेवता नलरूपसम्पदं वीक्षत इति। अन्यापि नायिका सभ्रूभङ्गया विस्फारितदृशा इष्टरूपसम्पदं
इवेति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org