________________
५३६
दमयन्ती-कथा-चम्पू: ताम्बुरुहासु क्रीडाकमलसरसीषु, क्षणमुपान्तपङक्तीभूतमञ्जरितसहकारराजिषु स्मर१६वाजिवाह्यालीषु, क्षणमुन्मिषत्कुसुममनोहारिणीषु१७, भवनोद्यानमालासु, क्षणमुत्पतत्यताकापटपल्लवविराजितासु१८ भीमभूपालान्तःपुरप्रासादपङिक्तषु१९, क्षणमवकीर्णकुसुमरङ्गावलीरम्यासु नगरवीथीषु विश्रान्तविलोचनश्चिरमवतस्थे ।
___ एवं-अमुना प्रकारेण अवधारयन्-मनसि विचारयन् तया-भैम्या प्रहितेषु-मुक्तेषु स्वहस्ताभ्यां पक्वा:-सिद्धा ये पाकरसविशेषास्तेषु अतृप्त इव-अनाघ्रात इव । तथा तस्याःभैम्याः कथायां-वाद्यां असन्तुष्टः । आचम्य-आचमनं गृहीत्वा शुचीभूय चन्दनं च अगुरुश्च चन्दनागुरु ताभ्यां परिमलनेन-उद्वर्त्तनेन पाण्डुरितौ-धवलितौ पाणिपल्लवौ यस्य स एवंविधः सन् । उत्सी-प्रसरणशीलः कर्पूरस्य परिमलो यस्मिन् एवंविधं लवङ्गैःदेवकुसुमैः कक्कोलैः-कोशफलैः करम्बितं-मिश्रितं यत्ताम्बूलं-क्रमुकीफलं क्रमुकफलचूर्णपर्णयोगो वा तत् आदाय-गृहीत्वा । भोजनानन्तरं अपरे-अन्यस्मिन् विनोद:-कौतुकं तदर्थं यो मण्डप:-आश्रयविशेषो विनोदमण्डपः यत्र गत्वा विनोदः क्रियते, ततोऽपराह्नस्य-सायंतनसमयस्य यो विनोदमण्डपोऽपराह्णविनोदमण्डपस्तस्मिन् मनाक्-ईषत् विश्रम्य-विश्राम गृहीत्वा भोजनजन्यखेदमपनीय रणरणकेन-उत्कण्ठया आक्रान्तं-व्याप्त हृदयं-चेतो यस्य सः, तथा दूरा:-विप्रकृष्टा ये दिगन्ता:-आशाप्रान्तास्तेषामवलोकने कुतूहलं जातमस्येति कुतूहलितः एवंविधः सन्, सरित्तीरे उत्तम्भितस्य-तत्कालारोपितस्य जङ्गमस्य चित्रकूटाख्यस्य अभ्रंलिहसौधस्य स्कन्धभूमि-मध्यभुवं आरुरोह-अधिशिश्राय । किम्भूते अपराह्णविनोदमण्डपे ? विकीर्णानि-विक्षिप्तानि विविधानि-अनेकप्रकाराणि पञ्चवर्णत्वात् यानि कुसुमानि तेषां यः प्रकरः-समूहस्तेन हारिणि-मनोज्ञे । तथा यक्षकमस्य अच्छाविशदा याश्छटास्ताभिराछोटिता:-सिक्ताः पर्यन्तभित्तिभागा:-अवसानकुड्यदेशा यस्य स तस्मिन् । “कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकमो मित्रैः" [३।३०२३०३] इति हैमकोषः । तथा लम्बितानि-लम्बायमानीकृतानि प्रलंबानि-दीर्घाणि जाम्बूनदपद्मानां-हैमाम्भोजानां दामानि-माला यस्मिन् स तथा तस्मिन् । तथा धूप:गन्धद्रव्ययोगविशेषस्तस्य यो धूमस्तस्य आमोदो विद्यते यस्मिन्नसौ धूपधूमामोदी तस्मिन् धूपधूमामोदिनि । तथा चूर्णितकर्पूरण-मृदितघनसारेण यो रङ्गः-रञ्जनं धवलीकरणं तस्य या रेखा-आभोगस्तां भजतीति चूर्णितकर्पूररङ्गरेखाभाक् तस्मिन्, कर्पूरचूर्णे धवलिते इत्यर्थः । "रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि" [२।२५] इत्यनेकार्थः । अथ सौधमारुह्य च-अधिष्ठाय तस्यां सौधस्कन्धभूमौ ऊर्ध्व एव-उपर्येव ध्रियमाणं-छत्रधरैर्गृह्यमाणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org