SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छवासः ५३५ चेतसः अग्रस्थामिव-पुरःस्थितामिव, तथा दृशो:-नेत्रयोः पुरः-अग्रे व्यालम्बमानामिवअवस्थितामिव साक्षादवलोक्यमानामिवेत्यर्थः । तथा जल्पन्तीमिव, तथा वदन्तीमिव, तथा रुन्धतीमिव-अन्यत्र गच्छन्तं मां गृह्णन्तीमिव, तथा मनाक्-ईषत् मुग्धं-रम्यं यथा भवति तथा हसन्तीमिव । तथा बहिरन्तरा-मध्ये, तथा निशि-रात्रौ दिवा-दिने, तथा मार्गेषु चपुनः गेहेषु विश्वरूपायितां-विश्वं रूपमस्येति विश्वरूपो हरिः स इव आचरिता विश्वरूपायिता तां विष्णूपमां पश्यामः-अवलोकयामः । यथा विश्वरूपो हरिः-सैर्वमभिव्याप्य तिष्ठति तथा सर्वव्यापिनीव च सा विलोक्यत इत्यर्थः । भ्रमाद् यत् तत्रापि तस्या अवलोकनात् । शार्दूलविक्रीडितम् ॥ १५ ॥ एवमवधारयन् अतृप्त इव तया प्रहितेषु स्वहस्तपक्वपाकरसविशेषेषु', असन्तुष्ट स्तत्कथायाम्, आचम्य, चन्दनागुरुपरिमल पाण्डुरितपाणिपल्लवः, लवङ्गकक्कोलकरम्बितताम्बूलमुत्सर्पिकर्पूरपरिमलमादाय, विकीर्णविविधकुसुमप्रकरहारिणि यक्षकर्दमाच्छछटाच्छोटित पर्यन्तभित्तिभागे लम्बितप्रलम्बजाम्बूनदपद्मदाम्नि धूपधूमामोदिनि चूर्णितकर्पूररङ्गरेखाभाजि भोजनान्तरमपरेऽपराह्णविनोदमण्डपे मनाग्विश्रम्य रणरणकाक्रान्तहृदयो दूरदिगन्तावलोकन कुतूहलितः सरित्तीरोत्तम्भिता भ्रलिहसौधस्कन्धभूमिमारुरोह, आरुह्य च तस्यामूर्ध्व एव ध्रियमाण मायूरातपत्रमण्डलः, सलीलालसपदैरितस्ततः परिक्रामन्, नेदीयसि सरित्संगमाम्भसि मध्याह्नमखिलमवगाहनसुखमनुभूय तीरमुत्तीर्णासु तिमिरशङ्कया कृतदूरचंक्रमणैश्चक्रवाकचक्रवालैराकुलमालोक्यमानासु१०, पुलिनपांसुविहरणविरामे विकसितविविधवीरुन्धिरोधांसि रदन्तीषु दन्तिपङ्क्तिषु दत्तदृष्टिः, विरलनलिनीपत्रान्तराल?सुप्तोत्थितस्य,१२ किंचिदवाञ्चितचटुलचञ्चोः, चरतः, चटुलचञ्चरीकिणि विकचकमलवने, राजहंसकुलकलापस्य करिकलभदन्तदण्डपाण्डुबिसकाण्डभङ्गटंकारानाकर्णयन्, अपराह्नमज्जनागताभिः कुण्डिनपुरपुरन्ध्रिभिराश्चर्यसोर्मिमुषितनिमेषैनिष्कम्पनीलोत्पलपलाशलीलायमानैत्रपुटैरापीयमानमुखेन्दुद्युतिः, दर्शिततरङ्गभ्रूभङ्गया दूरोच्छलद्वाल''शफरीछलेनविस्फारित१५विलोचनया, सरित्संगमसलिलाधिदेवतयापि विलोक्यमानरूपसंपत्तिरिव, क्षणमविरलचलच्चञ्चरीकचक्रचुम्बि १. सर्वमपि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy