________________
५३४
दमयन्ती-कथा-चम्पू: अत्रोदारशब्दो भाववचनो लवणादिशब्दवत् । तथा तस्याः-भैम्याः अपूर्व इव-अभिनव इव कोऽपि वाचामगोचरः पाकक्रमः । किम्भूतः१ पाकक्रमः ? परिमलश्च-आमोदः आस्वादश्चआस्वादनं स्पृहणीयौ-अभिलषणीयौ परिमलास्वादौ यत्र स स्पृहणीयपरिमलास्वादः ।
तथाहीति । अपूर्वत्वमेव पाकक्रमस्य दर्शयति, तद्यथा
इदं अम्लमपि-दन्तशठमपि न विद्यते अम्लस्य आस्वादो यत्र तत् अनम्लास्वादं । तथा इदं ईषत् कषायं-मनाक् तुवररसमपि मधुरतां-मृष्टतां आनीतम् । तथा इदं एकरसमपिएकास्वादमपि अनेकरसीकृतं-अनेकास्वादीकृतं । तथा इदं अतिमृष्टतया-अतिस्वादुतया अमृतमपि अतिशेते अमृतादप्यधिकी भवति । इयं विदर्भराजसुता-भैमी रसवत्यामपि रसिका-रागिणी तात्पर्यवतीति यावत् ।
चिन्तितवांश्च
षड्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा ।
तया तु पद्मपत्राक्ष्या सर्वमेकरसीकृतम् ॥ १४ ॥ अथ यच्चिन्तितवान् तदाह
षड्रसा इति । किलेति आप्तोक्तौ, आप्ता इति वदन्ति वैद्येषु-वैद्यशास्त्रेषु षड्रसा:तिक्तादयः । अथ भरते-नाट्यशास्त्रे अष्टौ नवापि वा शृङ्गारादयो रसाः२ । तया पद्मपत्राक्ष्याकमलदललोचनया पुनः सर्वं एकरसीकृतं-उत्कृष्टास्वादीकृतं चमत्कृतत्वात् आत्मविषये एकानुरागीकृतं च । यदनेकरसं तत्कथमेकरसी भवेत् ? इति विरोधेरै पुनरर्थस्तु शब्द उद्भावयति ॥ १४ ॥ तथाहि
अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशोजल्पन्तीमिव रुन्धतीमिव मनाङ् मुग्धं हसन्तीमिव । निद्रामुद्रितलोचना अपि वयं तां विश्वरूपायितां२,
पश्यामो बहिरन्तरे निशि दिवा मार्गेषु गेहेषु च ॥ १५ ॥ तथाहीति । अनेन आत्मानुभवसम्भावनाद्वारेण एकरसत्वमेव व्यनक्ति
अग्रस्थामिति । निद्रया मुद्रिते-पिहिते लोचने येषां ते एवंविधा अपि वयं भैमी १. किम्भूतश्च अनू. । २. रसास्तिक्तादयः अनू. । ३. विरोधं अनू. । ४. तां भैमी अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org