SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छासः भवतः सैन्यस्य आतिथेयं - अतिथिसत्कारः कृतं । तमेव प्रकारमाह - भुक्तान्ते - अशितावसाने घृतेन दिग्धौ - लिप्तौ यौ हस्ततलौ - करतलौ तयोरुद्वर्तनं- रूक्षीकरणं चन्दनं-चन्दनद्रवो दत्तं । पश्चाच्चन्दनद्रवदानानन्तरं पाण्डुरदलानि - वनवासदेशोद्भवानि नागवल्लीपत्राणि नागरै:विदग्धैः खण्ड्यन्ते-चर्व्यन्त इति नागरखण्डसंज्ञानि एवंविधानि यानि पाण्डुरदलानि - श्वेतपत्राणि तै: कृत्वा ताम्बूलदानस्य क्रमः - परिपाटी कृतः, ताम्बूलदलानि दत्तानीत्यर्थः । तत:-ताम्बूलदानानन्तरं एकैकस्य - प्रतिजनं मृणालतन्तुवत् मृदुनी-सुकुमारे वाससी - वस्त्रे दत्ते । शार्दूलविक्रीडितम् । || १३ || इयं च रसवती देवस्य तया स्वहस्तपल्लवपरिमलनसंस्कृतैः पाकविशेषैरलङ्कृत्य स्वमुद्रया मुद्रिता प्रहिता' इत्यभिधाय व्यरंसीत् । ५३३ इयं चेति । हे देव ! देवस्य तया दमयन्त्या स्वहस्तपल्लवाभ्यां यत्परिमलनंयथोचितगन्धद्रव्यक्षेपेण सुरभिकरणं तेन संस्कृतै: - पाकविशेषैरलङ्कृत्य स्वमुद्रयास्वलाञ्छनेन मुद्रिता-अङ्किता इयं च रसवती प्रहिता - प्रेषिता । इति उक्तप्रकारेण अभिधाय व्यरंसीत्-विरराम तूष्णीं बभाजेति यावत् । राजा तु मनाक् तरलितशिरः २ 'सस्मितमहो निरतिशयमुदारगम्भीरमुचितव्यवहारहारि लीलायितं तस्याः, स्पृहणीयपरिमलस्वादो यमपूर्व इव कोऽपि पाकक्रमः । तथाहि इदमम्लमप्यनम्लास्वादम्, इदमीषत्कषायमपि मधुरतामानीतम् ", इदमेकरसमप्यनेकरसीकृतम्, इदमतिमृष्टयाऽमृतमप्यतिशेते, रसवत्या'मपि रसवती विदर्भराजसुता', इति भावयं स्तास्तया १० प्रहितान्पाकविशेषानादरेणास्वादयामास । राजा तु नलः मनाक् - स्तोकं तरलितं - कम्पितं शिरो येन एवंविधः सन् सस्मितंईषद्धास्यसहितं यथा भवति तथा इति भावयन् - मनसि विचारयन् तया - दमयन्त्या प्रहितान् पाकविशेषान् आदरेण आस्वादयामास - बुभुजे । च- पुनः इति चिन्तितवान् । इतीति किम् ? अहो ! इति आश्चर्ये, निरतिशयं - उत्कृष्टं उदारेण - उदारतया दातृतया, गम्भीरं-अस्ताघं उचितव्यवहारेण, हारि - मनोहरं तस्या लीलायितं विलासवद्भवनं अलीलावत् लीलावत् भवनं लीलायितं तद्वति वर्तमानाल्लीलाशब्दात् आयिप्रत्यये भावे क्ते च रूपसिद्धिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy