SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: ५३८ ईक्षते । तथा क्षणमेकं अविरलं- निविडं चलद् यच्चञ्चरीकचक्रं - भृङ्गवृन्दं तेन चुम्बितानिआस्वादितानि अम्बुरुहाणि - पद्मानि यासु एवंविधासु क्रीडाकमलसरसीषु । तथा क्षणमेकं स्मरवाजिनो बाह्यालीव- वाहवाहभूमिरिव यास्ता, यथा वाजीवाह्याल्यां स्वैरं क्रीडति तथाऽत्र स्मरोपि विलसतीति, तथाविधासु उपान्ते - सरित्सङ्गमसमीपे पंक्तिभूताः - श्रेणिभूताः मञ्जरिता: या: सहकारराजय :- चूतालयस्तासु, कण्टकादिदोषरहितासु तरुराजिराजितासु च भूमिषु वाहवाहना । तथा च रम्या समतला लोष्ठकीलकण्टक वर्जिता बाह्यालीभूमिरभ्यर्णतरुराजिविराजितेति एतदेव पंक्तीभूतेत्यादिना उक्तम् । तथा क्षणमेकं उन्मिषन्ति-विकसन्ति यानि कुसुमानि तैर्मनोहारिणीषु - मनोहरासु भवनोद्यानमालासुगृहवनपंक्तिषु । तथा क्षणमेकं उत्पतन् वातेन ऊर्ध्वं गच्छन् यः पताकापटपल्लव:ध्वजपटप्रान्तस्तेन विराजितासु भीमभूपालस्य या अन्तःपुरप्रासादपंक्तय:-अवरोधभवनपंक्तयस्तासु । तथा क्षणमेकं अवकीर्णानि - विक्षिप्तानि हिंगुलुहरितालादिविचित्रवर्णकवत् चित्रहेतुत्वात् कुसुमान्येव रंगावलीविचित्रवर्णपंक्तिस्तया रम्यासु - शोभनासु नगरवीथिषु - पुरपद्धतिषु विश्रान्ते - दत्ते विलोचने- नेत्रे येन सः । विश्रान्तविलोचन इति पदं प्रत्येकं योज्यम् । एवंविधं चिरं अवरतस्थे । चिन्तितवांश्च नोद्याने न तरङ्गिणीपरिसरे नो रम्यहम्र्म्ये न वा, पुष्यत्पुष्करगर्भगुञ्जदलिषु क्रीडातडागेष्वपि । वात्याघूर्णितशीर्णपर्णतरला दृष्टिर्मदीयाधुना, लुभ्यल्लुब्धकभापितेव हरिणी श्रान्तापि विश्राम्यति ॥ १६ ॥ चिन्तितवांश्च-विचारितवांश्च नोद्यान इति । अधुना मदीया दृष्टिः श्रान्ताऽपि - खिन्नाऽपि न उद्याने वने विश्राम्यति-खिद्यते, पुनरवलोकनाय प्रवर्तित इत्यर्थः । तथा न तरङ्गिण्या :- नद्या: परिसरे-समीपे विश्राम्यति । तथा नो रम्ये हर्म्ये २ - सुन्दरधनिगृहे विश्राम्यति । तथा न वा क्रीडातडागेष्वपि विश्राम्यति । किम्भूतेषु क्रीडातडागेषु ? पुष्यन्ति - विकसन्ति यानि पुष्कराणि - राजीवानि तेषां गर्भे मध्ये गुञ्जन्तः - शब्दं कुर्वाणा अलय: - भृङ्गा येषु ते तथाविधेषु पुष्पफुल्लने । किम्भूता दृष्टिः ? वात्यया-वातसमूहेन घूर्णितं - भ्रमितं शीर्णं - शटितं यत्पर्णं- पत्रं तद्वत् तरला - चञ्चला दृष्टिः केव न विश्राम्यति ? लुभ्यन्- मृगीमांसखादने अभिलाषं गाद्धर्यं कुर्वन् यो लुब्धकः - मृगयुस्तेन भापिता- त्रासिता हरिणीव । यथा १. एवं विधश्चिरं अनू. । २. रम्यहम् अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy