SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः ५३९ लुब्धकभापिता मृगी श्रान्ताऽपि नो विश्राम्यति तथा मदीया दृष्टिरपि । शार्दूलविक्रीडितम् ॥१६॥ अपि च न गम्यो मन्त्राणां न च भवति भैषज्यविषयो, न चापि प्रध्वंसं व्रजति विहितैः शान्तिकशतैः । भ्रमावेशादड़े कमपि विदधद्भङ्गमसमं, स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ १७ ॥ अपि च-पुनश्चिन्तितवान् न गम्य इति । अयं स्मरापस्मार:-स्मररूपग्रहावेशो ममेति गम्यते, मम दृशं भ्रमयति, च-पुनः घूर्णयति-व्याकुली करोति । किम्भूतः स्मरापस्मारः? न मन्त्राणां गम्यः-ग्राह्यः, न मन्त्रै शान्ती क्रियत इत्यर्थः । तथा भैषज्यं-औषधं तद्विषयोऽपि न भवति, च शब्दोऽप्यर्थः, औषधैरपि न शम्य इत्यर्थः । तथा विहितैः-कृतैः शान्तिकशतैरपि न च प्रध्वंसं-विनाशं व्रजति-प्राप्नोति । अन्यो हि अपस्मारः मन्त्राणां गम्यो भवति, औषधैः शम्यो भवति, शान्तिकैविनाशं च प्राप्नोति, परं अयं न । शान्तिकेति शान्तिकं-मङ्गलस्नानं । किं कुर्वन् स्मरापस्मारः ? भ्रमः-सन्देहः, स चात्र दमयन्तीलाभविषयस्तस्य य आवेशः-प्रवेशस्तस्मात् अङ्गे-देहे कमपि-वक्तुमशक्यं असमंउग्रं भङ्ग-रुग्विशेषं विदधत्-कुर्वन् । “भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भव्यविच्छित्त्योः" [२।३९] इत्यनेकार्थः । किंचान्यदद्भुतम्पौष्याः पञ्चशराः शरासनमपि ज्याशून्यमिक्षोलता, जेतव्यं जगतां त्रयं प्रतिदिनं जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन्व्यापारः सुतरां विचारपदवीवन्थ्यो' विधेर्वन्द्यताम् ॥ १८ ॥ किञ्च-पुनः अन्यत्- एतत् अद्भुतम्, तदेवाह पौष्पा इति । विधेः-दैवस्य व्यापारः-चेष्टा सुतरां-अतिशयेन वन्द्यतां-स्तूयताम् । किम्भूतः ? विचारपदव्या-विचारमार्गेण वन्ध्यः-रहितः, न विचारयितुं शक्य इत्यर्थः । किं कुर्वन् ? इति-अमुना प्रकारेण आश्चर्यपरम्पराया या घटना-योजना निर्वर्तना तया चेत: १. देवस्य अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy