SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ५४० दमयन्ती-कथा-चम्पू: मानसं चमत्कारयन्-सचमत्कृतिकुर्वन् । इतीति किम् ? पौष्पाः-पुष्पविकारा:१ पुष्पसम्बन्धिनो न त्वायसाः, शरा:-सायकास्तेऽपि पञ्च न तु बहवः । अपरं इक्षोलता शरासनमपि-धनुरपि ज्याशून्यं-प्रत्यञ्चारहितं । अपरं जगतां त्रयं-त्रिभुवनं प्रतिदिनं जेतव्यम् । अपरं किलेति अरुचौ । जेताऽपि अनङ्गः-शरीररहितः कामः । अत्र प्रथमोऽपि शब्दः शरासनस्य ज्याशून्यस्य शरोपेक्षयारे द्वितीयश्च जेतुरनङ्गस्य प्रतिदिनजेतव्यजगत्त्रयापेक्षया वैषम्यव्यञ्जकः ॥ शार्दूलविक्रीडितम् ॥ १८ ॥ एवमनेकविधवितर्कतरलितहृदये कुण्डिननगरवीथीविश्रान्तदृशि शनैरुद्वेल्लित मल्लिकाक्षपक्ष पल्लवस्य मृदुतरतरङ्गितसरितः कमलवनवायोः समर्पितवपुषि निषधभूभुजि, भुजंगनिर्मो कधवले वसानो वाससी, रणन्मणिकङ्कणैराकूर्परं पूरितप्रकोष्ठः श्रीखण्डपिण्डपाण्डुरिततनुरपूर्व इव पर्वतकः प्रतीहारसूचितः प्रविवेशः। प्रविश्य च प्रकटितप्रणयप्रणामः प्रभुणा सविस्मयस्मितहुंकारेणाभिलाषितः स्तोकोन्नमित भूसंज्ञया विज्ञपयितुमारेभे। एवं-अमुना प्रकारेण अनेकविधा:-नानाप्रकारा३ ये वितर्काः-ऊहास्तैस्तरलितंकम्पितं हृदयं-चेतो यस्य स तस्मिन्, तथा कुण्डिननगरवीथ्यां विश्रान्ता-दत्ता दृक् येन स तस्मिन्, तथा कमलवनवायोः समपितं-दत्तं वपुर्येन स तस्मिन्, पद्मवनवातं स्पृशतीत्यर्थः । किम्भूतस्य कमलवनवायोः ? शनैः-मन्दं उद्वेल्लिता:-ऊर्ध्वं कम्पिता: “मल्लिाकाक्षाणांराजहंसविशेषाणां पक्षपल्लवा येन स तथा तस्य, तथा मृदुतरं-मन्दं मन्दं तरङ्गिता - तरङ्गीकृता सरित्-नदी येन स तथा तस्य, एवंविधे सति नैषधभूभुजि-नले प्रतीहारेणदौवारिकेण सूचितः, यथा-देव ! पर्वतकः समागच्छतीति ज्ञापितः । पर्वतक: सौधान्तः प्रविवेश-प्राविशत् । किं कुर्वन् ? भुजङ्गनिर्मोकवत्-सर्पकञ्चुकवत् धवले-श्वेते वाससीवस्त्रे वसान:-परिदधानः । “वस् आच्छादने" [पा०धा० १०२३]। तथा रणरणन्ति - शब्दायमानानि यानि मणिकङ्कणानि तैः आकूर्परं कूपरं-भुजामध्यं आमर्यादीकृत्य, आकूपरं कूर्परं यावत् पूरितः-भृतः प्रकोष्ठिका कलाचिका यस्य स । पूरितप्रकोष्ठः । तथा श्रीखण्डपिण्डेन-चन्दनद्रवसमूहेन पाण्डुरिता-धवलिता तनुः-शरीरं यस्य सः श्रीखण्डपाण्डुरिततनुः, अतएव अपूर्व इव-अभिनव इव । चिरं दृष्टस्यापि पर्वतकनाम्नो वामनस्य अपूर्वत्वमिह पूर्वमभूषितस्य सम्प्रति पारितोषिकभूषणभूषितत्वात् । दत्तोदन्त प्रश्नतात्पर्याद्वा । १. *-* पुष्पविकारा: नास्ति अनू. । २. शरापेक्षया अनू. । ३. नानाविधाः अनू. । चिह्नान्तर्गत पाठो नास्ति अनू. । ४. रण० नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy