________________
सप्तम उच्छासः
५४१ प्रविश्य च प्रकटितः प्रणयेन-प्रश्रयेण प्रणामो येन सः । तथा प्रभुणा-नलेन विस्मयःआश्चर्यं स्मितं-ईषद्धास्यं ताभ्यां सह वर्तत इति सविस्मयस्मितः, एवंविधो यो हुङ्कारस्तेन अभिलाषित:-वादितः सन् पर्वतकः स्तोक-ईषत् उन्नमिता-उच्चैः कृता या भ्रूस्तया या संज्ञाप्रयोजनसूचना तया, राज्ञो भ्रूसंकेतेन इत्यर्थः, विज्ञपयितुं-कथयितुं आरेभे। "संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचनैः । चेतनार्कस्त्रियोः" [२।८०-८१] इत्यनेकार्थः ।
'देव, श्रूयताम् । इतो गतवानहम् । अनन्तरमतिशयित स्वर्गान्मार्गाननेकविधचर्चाचारूणि चत्वराणि विलक्य, विहितमनःप्रसादान्प्रासादानवलोकयन्, इतस्ततः सस्मितस्मरालसचलद्वेलाविलासिनीविकारकूणितकोणेक्षणाक्षिप्तहृदयः, सेवाविरामनिःसरत्सामन्तसंकुलम्, अविरलगलन्मधुमञ्जरीपुञ्जपिञ्जरितसरससहकारवननिकुञ्जपुञ्जितपुंस्कोकिलकुलकलरवरमणीयोद्यानमालावलयितम्, उपान्तकृतमणिमन्दरामन्दिरनिबद्धस्निग्धपोषणोत्कर्षहर्षहेषितराजवल्लभातरंगम, उत्तुङ्गशृङ्गसंगतमङ्गलध्वजम्ने, अङ्गणोत्सङ्गरङ्गक्रीडाकुरङ्गविहंगम्, अभङ्गाङ्गर क्षरक्षितकक्षान्तररममाणराजकुमारकम्, अतिसूक्ष्ममुक्ताफलरचिततरङ्गरम्यरेखा राजिराजिताजिरं राजभवनमविशम् ।
अतिमनोहारिणि यत्र सुपुष्करमालानि क्रीडावापीपयांसि नागयूथं च, सारवाणि लीलोद्यानसारसमिथुनानि सेवककविवृन्दं च, विलम्बतानि काञ्चनकुसुमदामानि गीतं च, अनलसङ्गानि लक्षप्रदीपवर्तिमुखानि प्रेक्षणकं च ।
हे देव ! श्रूयताम् । अहं-पर्वतकः इत:-भवत्समीपात् गतवान् । अनन्तरं-इतो निर्गमनात् पश्चात् मार्गान् चत्वराणि च विलंघ्य, प्रासादान् अवलोकयन्- पश्यन् ईदृक् राजभवनं अविशमिति सम्बन्धः । किम्भूतान् मार्गान् ? स्वर्गात्-प्रकरणात् स्वर्गमार्गात् श्रिया अतिशयिता अधिका "आहिताग्न्यादित्वात् [वाहिताग्न्यादिषु ] निष्ठान्तस्य प्रानिपाते" [पा०सू० २।२।३७] अतिशयितस्वर्गास्तान्, स्वर्गमार्गातिशायिशोभावत् इत्यर्थः । किम्भूतानि चत्वराणि ? अनेकविधा या चर्चा-गन्धोदकसेचनपुष्पप्रकरादिवा" च, सा च प्रस्तावात् नलप्रवेशादिलक्षणा तया चारूणि-मनोज्ञानि । किम्भूतान् प्रासादान् ? विहितः-कृतो मन:
१. प्रकरादिः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org