SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ५४२ दमयन्ती-कथा-चम्पू: प्रसादः-चेतो प्रसन्नता यैस्ते तथाविधान्, द्रष्ट्रीणां आह्लादजनकानित्यर्थः । किम्भूतं राजभवनम् ? इतस्ततः-सर्वतः सस्मिताः-सहास्याः-स्मरालसाः स्मरमन्थतश्चलन्त्यःगच्छन्त्यः या वेलाविलासिन्यः-वारनार्यस्ताभिर्विकारेण-स्मरविलासेन कूणितं-संकोचितं कोणे-नेत्रप्रान्ते यत् ईक्षणं-नेत्रं तेन अक्षिप्तं?-वशीकृतं हृदयं-चेतो येषां एवंविधाः, सेवाविरामे-नृपपर्युपासनावसाने निःसरन्तः-निर्गच्छन्तो ये सामन्ताः-मण्डलेश्वरास्तैः संकुलं-व्याप्तम् । तथा अविरलं-प्रचुरं गलत्-क्षरत् मधु-मकरन्दो यत्र तत्, तथा मञ्जरीपुज्जेन पिञ्जरितं-पिङ्गलीकृतं, तथा सरसं-आर्द्र ततः कर्मधारयः, एवंविधं यत् सहकारवनं तस्य यो निकुञ्जः-गह्वरं तस्मिन् पुञ्जितं-मिलितं यत् पुंस्कोकिलानां-पिकानां कुलं-समूहस्तस्य यः कलरवः-मधुरस्वरस्तेन रमणीया-रम्या या उद्यानमाला तया वलयितंपरिकरितं, यस्य परितः-सर्वतो वनमाला विद्यत इत्यर्थः । तथा मणीनां मन्दुरा-वाजिशाला मणिमन्दुरा उपान्ते-राजभवनस्य समीपे कृता या मणिमन्दुरा सैव मन्दिरं तस्मिन् निबद्धाःसंयताः स्निग्धाः-सच्छायाः, यद्वा स्निग्धैः-हरित्तृणादिभिर्यत् पोषणं-पुष्टीकरणं तस्योत्कर्षात् अतिशयाद् हर्षेण हेषिता:-कृतहेषारवाः । राज्ञः-भीमस्य वल्लभाः-इष्टास्तुरङ्गाः-अश्वा यत्र तत् । “हेष अव्यक्ते शब्दे" [पा०धा० ६२१] निष्ठायां रूपम् । तथा उत्तुङ्गशृङ्गेषुउन्नतशिखरेषु संगता:-वायुवशात् मिलिता मङ्गलध्वजा यत्र तत् । तथा अङ्गणोत्सङ्गेअजिरमध्यभागे रङ्गन्तः-खेलन्तः क्रीडाकुरङ्गाः क्रीडाविहङ्गाश्च यत्र तत् । क्रीडाशब्द उभयत्रापि योज्यते । तथा अभङ्गाः-अपराजया ये अङ्गरक्षा:-राज्ञः अङ्गरक्षकास्तै रक्षिताःपालिताः कक्षान्तरे-गृहभूमिभागमध्ये दोर्मूलमध्ये वा रममाणा:-क्रीडन्तो राजकुमारका यत्र तत् । तथा अतिसूक्ष्माणि-अतिलघूनि यानि मुक्ताफलानि तैः रचिता-विहिता तरङ्गवद् रम्या या रेखाराजि:-रेखापंक्तिस्तया राजितं शोभितं अजिरं-प्राङ्गणं यत्र तत् । अतिमनोहारिणि-अतिमनोहरे यत्र-राजभवने एवं विधानि क्रीडावाप्याः पयांसिजलानि नागयूथं च हस्तिवृन्दं । किम्भूतानि क्रीडावापीपयांसि ? सुष्ठ पुष्कराणां-पद्मानां माला-श्रेणिर्येषु तानि । किम्भूतं नागयूथम् ? सुष्ठ पुष्करं-शुण्डाग्रं यस्य तत् सुपुष्करं । यदनेकार्थः-"पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येसि फले काण्डे शुण्डाग्रे खे जलेम्बुजे" [३।६१४-६१५]। तथा आलानं-अर्गलनस्तम्भोऽस्यास्तीति आलानि । तथा यत्र एवम्विधानि लीलोद्यानस्य सारसमिथुनानि सेवककवीनां वृन्दं च । किम्भूतानि सारसमिथुनानि ? सह आरवैवर्तन्त इति सारवाणि । किम्भूतं सेवककविवृन्दम् ? साराउत्कृष्टा वाणी-सरस्वती यस्य तत् । तथा यत्र एवंविधानि काञ्चनकुसुमानां-सौवर्णपुष्पाणां दामानि-माला: गीतं च । किम्भूतानि काञ्चनकुसुमदामानि ? विशेषेण लम्बितानिलम्बायमानीकृतानि । किम्भूतं गीतम् ? विलम्बिस्वरकृतविलम्बोपेतं तथा तानि तानोपेतम् । १. आक्षिप्रं अनू. । २. यस्य अनू. । ३. वाणिः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy